विश्वास-प्रस्तुतिः - १
अथ धाता रविर् ईशप्रणतिमहादेवशिवहरक्रीडाः ।
प्रश्नोत्तराट्टहासाव् अमुष्य मूर्धीत्तमाङ्गगङ्गा च ॥१॥
मूलम् - १

विश्वास-प्रस्तुतिः - २
मौलिशशी कोटीरो मुण्डावलिर् अक्षि पुरभिदारम्भः ।
बाणानलोष्टमूर्तिर् भैरवहरताण्डवारम्भौ ॥२॥
मूलम् - २
मौलिशशी कोटीरो मुण्डावलिर् अक्षि पुरभिदारम्भः ।
बाणानलोष्टमूर्तिर् भैरवहरताण्डवारम्भौ ॥२॥
विश्वास-प्रस्तुतिः - ३
नृत्यं हरप्रसादनम् अथ गौरी परिणयस्थगौरी च ।
शृङ्गारो गिरिदुहितुर् दुर्गा काली तथार्धनारीशः ॥३॥
मूलम् - ३

विश्वास-प्रस्तुतिः - ४
शृङ्गारी च गजाननशरसम्भवभृङ्गिणः प्रमथाः ।
अथ हरिहरौ सकान्तौ सुरसिन्धुर् जह्न्कन्यकाशंसा ॥४॥
मूलम् - ४

विश्वास-प्रस्तुतिः - ५
मत्स्यकमठसूकरकेशरिनृसिंहपाणिजन्मानः ।
शृङ्गारी च नृसिंहो वामनमूर्तिस् त्रिविक्रमो भृगुजः ॥५॥
मूलम् - ५

विश्वास-प्रस्तुतिः - ६
दाशरथिर् एष विरही हलधरजिनकल्किनो’थ कृष्णस्य ।
शिशुताकुमारभावौ स्वप्नायितयौवनक्रीडाः ॥६॥
मूलम् - ६
दाशरथिर् एष विरही हलधरजिनकल्किनो’थ कृष्णस्य ।
शिशुताकुमारभावौ स्वप्नायितयौवनक्रीडाः ॥६॥
विश्वास-प्रस्तुतिः - ७
प्रश्नोत्तरं च वेणुध्वननं गीतं भुजश् च गिरिधरणम् ।
उत्कण्ठा गोपवधूसन्देशो हरिर् अमुष्य भक्तिश् च ॥७॥
मूलम् - ७

विश्वास-प्रस्तुतिः - ८
उदधिमथनहरिर् अम्बुधिमथनोत्थश्रीः स्वयंवरो लक्ष्म्याः ।
श्री शृङ्गारः कमलाकमलोपालभवाक् प्रशस्तेन्दुः ॥८॥
मूलम् - ८

विश्वास-प्रस्तुतिः - ९
चन्द्रकला शशिबिम्बं प्रौढविधुः सरुचिचन्द्रमा रश्मिः ।
ज्योत्स्ना कलङ्कतमौडुकैरवसहितेन्दुभावश् च ॥९॥
मूलम् - ९

विश्वास-प्रस्तुतिः - १०
मिश्रबहुरूपकास्तङ्गतबहुविषयेन्दवो’थ गन्धवहः ।
दक्षिणनदीसमुद्रप्रभातभिन्नश् च पुष्पधन्वा च ॥१०॥
मूलम् - १०
मिश्रबहुरूपकास्तङ्गतबहुविषयेन्दवो’थ गन्धवहः ।
दक्षिणनदीसमुद्रप्रभातभिन्नश् च पुष्पधन्वा च ॥१०॥
विश्वास-प्रस्तुतिः - ११
स्मरशौर्यम् अथोच्चावचम् इति पञ्चोपेतनवतिवीचिभिः ।
श्रीधरदासेन कृतः कृतिना देवप्रवाहो’यम् ॥११॥
मूलम् - ११