०९४ मदनशौर्यम्

विश्वास-प्रस्तुतिः - ४६६

वन्दे देवम् अनङ्गम् एव रमणीनेत्रोत्पलच्छद्मना
पाशेनायतिशालिना सुनिविडं संयम्य लोकत्रयम् ।
येनासाव् अपि भस्मनाञ्जिततनुर् देवः कपाली बलात्
प्रेमक्रुद्धनगात्मजाङ्घ्रिविनतिक्रीडाव्रते दीक्षितः ॥४६६॥

मूलम् - ४६६

वन्दे देवम् अनङ्गम् एव रमणीनेत्रोत्पलच्छद्मना
पाशेनायतिशालिना सुनिविडं संयम्य लोकत्रयम् ।
येनासाव् अपि भस्मनाञ्जिततनुर् देवः कपाली बलात्
प्रेमक्रुद्धनगात्मजाङ्घ्रिविनतिक्रीडाव्रते दीक्षितः ॥४६६॥

ललितोकस्य । (सु।र। ३२८)

विश्वास-प्रस्तुतिः - ४६७

चापः क्षमाधरपतिः फणिना पतिर् ज्या
बाणः पुराणपुरुषस् त्रिदशाः सहायाः ।
ईशः पुराम् इति पुरां तिसृणां विजेता
पुष्पायुधः पुनर् अयं त्रिजगद्विजेता ॥४६७॥

मूलम् - ४६७

चापः क्षमाधरपतिः फणिना पतिर् ज्या
बाणः पुराणपुरुषस् त्रिदशाः सहायाः ।
ईशः पुराम् इति पुरां तिसृणां विजेता
पुष्पायुधः पुनर् अयं त्रिजगद्विजेता ॥४६७॥

भवानन्दस्य ।

विश्वास-प्रस्तुतिः - ४६८

अयं स भुवनत्रयप्रथितसंयमः शङ्करो
बिभर्ति वपुषाधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयम् इति प्रयायाः करं
करेण परिताडयञ्जयति जातहासः स्मरः ॥४६८॥

मूलम् - ४६८

अयं स भुवनत्रयप्रथितसंयमः शङ्करो
बिभर्ति वपुषाधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयम् इति प्रयायाः करं
करेण परिताडयञ्जयति जातहासः स्मरः ॥४६८॥

नीलपट्ठस्य । (सु।र। ३२३)

विश्वास-प्रस्तुतिः - ४६९

कुलगुरुर् अबलानां केलिदीक्षाप्रदाने
परमसुहृदनन्ङ्गो रोहिणीवल्लभस्य ।
अपि कुसुमपृषत्कैर् देवदेवस्य जेता
जयति सुरतलीलानाटिकासूत्रधारः ॥४६९॥

मूलम् - ४६९

कुलगुरुर् अबलानां केलिदीक्षाप्रदाने
परमसुहृदनन्ङ्गो रोहिणीवल्लभस्य ।
अपि कुसुमपृषत्कैर् देवदेवस्य जेता
जयति सुरतलीलानाटिकासूत्रधारः ॥४६९॥

राजशेखरस्य । (वि।शा।भ। १।१, सु।र। ३२७, शा।प। ३०७७, सू।मु। १।२५)

विश्वास-प्रस्तुतिः - ४७०

धनुर् माला मौर्वी क्वणदलिकुलं लक्ष्यम् अबला
मनोभेद्यशब्दप्रभृतय इमे पञ्चविशिखाः ।
इयां जेतुं यस्य त्रिभुवनम् अदेहस्य विभवः
स वः कामः कामान् दिशतु दयितापाङ्गवसतिः ॥४७०॥

मूलम् - ४७०

धनुर् माला मौर्वी क्वणदलिकुलं लक्ष्यम् अबला
मनोभेद्यशब्दप्रभृतय इमे पञ्चविशिखाः ।
इयां जेतुं यस्य त्रिभुवनम् अदेहस्य विभवः
स वः कामः कामान् दिशतु दयितापाङ्गवसतिः ॥४७०॥

कस्यचित् । (स्व् ८२, सु।र। ३३१)