विश्वास-प्रस्तुतिः - ४६६
वन्दे देवम् अनङ्गम् एव रमणीनेत्रोत्पलच्छद्मना
पाशेनायतिशालिना सुनिविडं संयम्य लोकत्रयम् ।
येनासाव् अपि भस्मनाञ्जिततनुर् देवः कपाली बलात्
प्रेमक्रुद्धनगात्मजाङ्घ्रिविनतिक्रीडाव्रते दीक्षितः ॥४६६॥
मूलम् - ४६६
वन्दे देवम् अनङ्गम् एव रमणीनेत्रोत्पलच्छद्मना
पाशेनायतिशालिना सुनिविडं संयम्य लोकत्रयम् ।
येनासाव् अपि भस्मनाञ्जिततनुर् देवः कपाली बलात्
प्रेमक्रुद्धनगात्मजाङ्घ्रिविनतिक्रीडाव्रते दीक्षितः ॥४६६॥
ललितोकस्य । (सु।र। ३२८)
विश्वास-प्रस्तुतिः - ४६७
चापः क्षमाधरपतिः फणिना पतिर् ज्या
बाणः पुराणपुरुषस् त्रिदशाः सहायाः ।
ईशः पुराम् इति पुरां तिसृणां विजेता
पुष्पायुधः पुनर् अयं त्रिजगद्विजेता ॥४६७॥
मूलम् - ४६७
चापः क्षमाधरपतिः फणिना पतिर् ज्या
बाणः पुराणपुरुषस् त्रिदशाः सहायाः ।
ईशः पुराम् इति पुरां तिसृणां विजेता
पुष्पायुधः पुनर् अयं त्रिजगद्विजेता ॥४६७॥
भवानन्दस्य ।
विश्वास-प्रस्तुतिः - ४६८
अयं स भुवन-त्रय-प्रथित-संयमः शङ्करो
बिभर्ति वपुषा ऽधुना विरह-कातरः कामिनीम् ।
“अनेन किल निर्जिता वयम्” इति प्रयायाः करं
करेण परिताडयञ् जयति जातहासः स्मरः ॥४६८॥
English
That Śaṅkara, whose austerity is celebrated all over the three worlds, is now holding his beloved in his body, afraid of separation [from her]. They say that we’ve been defeated by him!’ The god of love is victorious, who with these words gives his beloved a high five and bursts into a laugh.
मूलम् - ४६८
अयं स भुवनत्रयप्रथितसंयमः शङ्करो
बिभर्ति वपुषाधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयम् इति प्रयायाः करं
करेण परिताडयञ्जयति जातहासः स्मरः ॥४६८॥
नीलपट्ठस्य । (सु।र। ३२३)
विश्वास-प्रस्तुतिः - ४६९
कुलगुरुर् अबलानां केलिदीक्षाप्रदाने
परमसुहृदनन्ङ्गो रोहिणीवल्लभस्य ।
अपि कुसुमपृषत्कैर् देवदेवस्य जेता
जयति सुरतलीलानाटिकासूत्रधारः ॥४६९॥
मूलम् - ४६९
कुलगुरुर् अबलानां केलिदीक्षाप्रदाने
परमसुहृदनन्ङ्गो रोहिणीवल्लभस्य ।
अपि कुसुमपृषत्कैर् देवदेवस्य जेता
जयति सुरतलीलानाटिकासूत्रधारः ॥४६९॥
राजशेखरस्य । (वि।शा।भ। १।१, सु।र। ३२७, शा।प। ३०७७, सू।मु। १।२५)
विश्वास-प्रस्तुतिः - ४७०
धनुर् माला मौर्वी क्वणदलिकुलं लक्ष्यम् अबला
मनोभेद्यशब्दप्रभृतय इमे पञ्चविशिखाः ।
इयां जेतुं यस्य त्रिभुवनम् अदेहस्य विभवः
स वः कामः कामान् दिशतु दयितापाङ्गवसतिः ॥४७०॥
मूलम् - ४७०
धनुर् माला मौर्वी क्वणदलिकुलं लक्ष्यम् अबला
मनोभेद्यशब्दप्रभृतय इमे पञ्चविशिखाः ।
इयां जेतुं यस्य त्रिभुवनम् अदेहस्य विभवः
स वः कामः कामान् दिशतु दयितापाङ्गवसतिः ॥४७०॥
कस्यचित् । (स्व् ८२, सु।र। ३३१)