विश्वास-प्रस्तुतिः - ४६१
सुधासूतेर् बन्धुर् मधुसहचरः पञ्चमरुचि
दिशंल्लीला बह्वीः कुवलयदृशां नर्मणि गुरुः ।
स देवः शृङ्गारी हृदयवसतिः पञ्चविशिखः
सदा स्वादून् कुर्वन् मधुमदविकारान् विजयते ॥४६१॥
मूलम् - ४६१
सुधासूतेर् बन्धुर् मधुसहचरः पञ्चमरुचि
दिशंल्लीला बह्वीः कुवलयदृशां नर्मणि गुरुः ।
स देवः शृङ्गारी हृदयवसतिः पञ्चविशिखः
सदा स्वादून् कुर्वन् मधुमदविकारान् विजयते ॥४६१॥
राजशेखरस्य ।
विश्वास-प्रस्तुतिः - ४६२
अन्तर्बहिस् त्रिजगतीरसभावविद्वान्
यो नर्तयत्य् अखिलदेहभृतां कुलानि ।
क्षेमं ददातु भगवान् परमादिदेवः
शृङ्गारनाटकमहाकविर् आत्मजन्मा ॥४६२॥
मूलम् - ४६२
अन्तर्बहिस् त्रिजगतीरसभावविद्वान्
यो नर्तयत्य् अखिलदेहभृतां कुलानि ।
क्षेमं ददातु भगवान् परमादिदेवः
शृङ्गारनाटकमहाकविर् आत्मजन्मा ॥४६२॥
भवानन्दस्य ।
विश्वास-प्रस्तुतिः - ४६३
जयति स मदलेखोच्छृङ्खलप्रेमरामा
ललितसुरतलीलादैवतं पुष्पचापः ।
त्रिभुवनजयसिद्धौ यस्य शृङ्गारमूर्ते
रुपकरणम् अपूर्वं माल्यम् इन्दुर् मधूनि ॥४६३॥
मूलम् - ४६३
जयति स मदलेखोच्छृङ्खलप्रेमरामा
ललितसुरतलीलादैवतं पुष्पचापः ।
त्रिभुवनजयसिद्धौ यस्य शृङ्गारमूर्ते
रुपकरणम् अपूर्वं माल्यम् इन्दुर् मधूनि ॥४६३॥
उत्पलराजस्य । (सु।र। ३३२)
विश्वास-प्रस्तुतिः - ४६४
मनसि कुसुमबाणैर् एककालं त्रिलोकीं
कुसुमधनुर् अनङ्गस् ताडयत्य् अस्पृशद्भिः ।
इति विततविचित्राश्चर्यसङ्कल्पशिल्पो
जयति मनसिजन्मा जन्मिभिर् मानिताङ्गः ॥४६४॥
मूलम् - ४६४
मनसि कुसुमबाणैर् एककालं त्रिलोकीं
कुसुमधनुर् अनङ्गस् ताडयत्य् अस्पृशद्भिः ।
इति विततविचित्राश्चर्यसङ्कल्पशिल्पो
जयति मनसिजन्मा जन्मिभिर् मानिताङ्गः ॥४६४॥
कस्यचित् । (सु।र। ३२५)
विश्वास-प्रस्तुतिः - ४६५
याच्यो न कश्चन गुरुः प्रतिमा च कान्ता
पूजा विलोकननिगूहनचुम्बनानि ।
आत्मा निवेद्यम् इतरव्रतसारजेत्रीं
वन्दामहे मकरकेतन देव दीक्षाम् ॥४६५॥
मूलम् - ४६५
याच्यो न कश्चन गुरुः प्रतिमा च कान्ता
पूजा विलोकननिगूहनचुम्बनानि ।
आत्मा निवेद्यम् इतरव्रतसारजेत्रीं
वन्दामहे मकरकेतन देव दीक्षाम् ॥४६५॥
वल्लनस्य । (सु।र। ३३३)