०९१ समुद्रवातः

विश्वास-प्रस्तुतिः - ४५१

वहति जलधिकूले बालताम्बूलवल्ली
चलनविधिविदग्धः सान्द्रनीहारसार्द्रः ।
गगनचरपुरन्ध्रीदन्तनिर्भिन्नवन्य
क्रमुकफलकषायामोदसौम्यः समीरः ॥४५१॥

मूलम् - ४५१

वहति जलधिकूले बालताम्बूलवल्ली
चलनविधिविदग्धः सान्द्रनीहारसार्द्रः ।
गगनचरपुरन्ध्रीदन्तनिर्भिन्नवन्य
क्रमुकफलकषायामोदसौम्यः समीरः ॥४५१॥

दक्षस्य ।

विश्वास-प्रस्तुतिः - ४५२

लवणजलधिवेलाशीकरासारवर्षी
सुरतरभसखिन्नद्राविडीभुक्तमुक्तः ।
वहति मलयशैलारण्यदोलाविलासी
तरुणकरुणमल्लीगन्धबन्धुः समीरः ॥४५२॥

मूलम् - ४५२

लवणजलधिवेलाशीकरासारवर्षी
सुरतरभसखिन्नद्राविडीभुक्तमुक्तः ।
वहति मलयशैलारण्यदोलाविलासी
तरुणकरुणमल्लीगन्धबन्धुः समीरः ॥४५२॥

धर्मपालस्य ।

विश्वास-प्रस्तुतिः - ४५३

ये कल्लोलैश् चिरम् अनुगता दक्षिणस्याम्बुराशेः
पीतोच्छिष्टास् तद् अनु मलये भोगिभिश् चन्दनस्थैः ।
अन्तर्भ्रान्ताः प्रतिकिसलयं पुष्पितानां लतानां
सम्प्राप्तास् ते विरहशिखिनो गन्धवाहाः सहायाः ॥४५३॥

मूलम् - ४५३

ये कल्लोलैश् चिरम् अनुगता दक्षिणस्याम्बुराशेः
पीतोच्छिष्टास् तद् अनु मलये भोगिभिश् चन्दनस्थैः ।
अन्तर्भ्रान्ताः प्रतिकिसलयं पुष्पितानां लतानां
सम्प्राप्तास् ते विरहशिखिनो गन्धवाहाः सहायाः ॥४५३॥

अमरसिंहस्य ।

विश्वास-प्रस्तुतिः - ४५४

मन्दान्दोलितदक्षिणार्णवचलत्कल्लोललीलालस
त्कर्णाटीरतकेलिलोलसुमनोमालासमुल्लासिनः ।
वाताः केरलकामिनीकुचतटे लाटीललाटे मुहुः
खेलन्तो विकिरन्ति मालववधूधम्मिल्लमल्लीस्रजः ॥४५४॥

मूलम् - ४५४

मन्दान्दोलितदक्षिणार्णवचलत्कल्लोललीलालस
त्कर्णाटीरतकेलिलोलसुमनोमालासमुल्लासिनः ।
वाताः केरलकामिनीकुचतटे लाटीललाटे मुहुः
खेलन्तो विकिरन्ति मालववधूधम्मिल्लमल्लीस्रजः ॥४५४॥

कस्यचित् ।

विश्वास-प्रस्तुतिः - ४५५

लावण्यैश् चक्रपाणेः क्षणधृतगतयः प्रांशुभिश् चन्द्रकान्त
प्रासादैर् द्वारकायां तरलितचरमाम्भोधितीराः समीराः ।
सेवन्ते नित्यमाद्यत्करिकठिनकरास्फालकालप्रबुद्ध
क्रुध्यत्पञ्चाननोग्रध्वनिभरविगलच्चण्डहुङ्कारगर्भाः ॥४५५॥

मूलम् - ४५५