०८७ उच्चावचचन्द्रः

विश्वास-प्रस्तुतिः - ४३१

नेपथ्यं भूतभर्तुस् त्रिदशपरिषदां जीवनं यामिनीनाम्
उत्तंसः पांसुलानां कुलरिपुर् अमृतस्रोतसाम् आदिशैलः ।
आतङ्कः पङ्कजानां जयति रतिकलाकेतनं मीनकेतोः
सिन्धूनाम् एकबन्धुः कुमुदसमुदयानन्दकन्दो’यम् इन्दुः ॥४३१॥

मूलम् - ४३१

शरणस्य ।

विश्वास-प्रस्तुतिः - ४३२

ज्योत्स्नामुग्धवधूविलासभवनं पीयूषवीचिसरः
क्षीराब्धेर् नवनीतकूटम् अवनीतापार्तितोयोपलः ।
यामिन्यास् तिलकः कला मृगदृशां प्रेमव्रतैकाश्रमः
क्रामत्य् एष चकोरयाचकमहःकर्पूरवर्षः शशी ॥४३२॥

मूलम् - ४३२

(सु।र। ९५५)

विश्वास-प्रस्तुतिः - ४३३

प्राचीगण्डस्थलमलयजस्थासके कामिनीनाम्
अन्तर्यामिण्य् अमृतकिरणे वैरिणि स्वैरिणीनाम् ।
ज्योत्स्नाजालं विकिरति मुहुश् चन्द्रकान्तप्रणालीर्
आचामन्ति प्रियसहचरीचाटुकाराश् चकोराः ॥४३३॥

मूलम् - ४३३

हरेः ।

विश्वास-प्रस्तुतिः - ४३४

तमोभिर् दिक्कालैर् वियद् इव विलङ्घ्य क्व नु गतं
गता द्राङ्मुद्रापि क्व नु कुमुदकोषस्य सरसः ।
क्व धैर्यं तच् चाब्धेर् विदितम् उदयाद्रेः परिसर
स्थलीमध्यासीने शशिनि जगद् अप्य् आकुलम् इदम् ॥४३४॥

मूलम् - ४३४

अपराजितरक्षितस्य । (सु।र। ९२५)

विश्वास-प्रस्तुतिः - ४३५

ऋक्षैर् वृतो हरिपदे निवसन् समीर
सन्तानशैत्यजनकः कुमुदप्रमोदी ।
निघ्नन् निशाचरतमः पृथुनीललक्ष्मा
तारापतिः स्फुरति चित्रम् अनङ्गदो’यम् ॥४३५॥

मूलम् - ४३५

सुरभेः ।