०८३ भासः

विश्वास-प्रस्तुतिः - ४११

कह्लारस्पर्शगर्भैः शिशिरपरिचयात् कान्तिमद्भिः कराग्रै
श्चन्द्रेणालिङ्गितायास् तिमिरनिवसने स्रंसमाने रजन्याः ।
अन्योन्यालोकनीभिः परिचयजनितप्रेमनिस्यन्दिनीभि
र्दूरारूढे प्रमोदे हसितम् इव परिस्पष्टम् आशासखीभिः ॥४११॥

मूलम् - ४११

पाणिनेः । (सु।र। ९२०)

विश्वास-प्रस्तुतिः - ४१२

उपोढरागेण विलोलतारकं
तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तथा
पुरो’पि मोहाद् गलितं न लक्षितम् ॥४१२॥

मूलम् - ४१२

उपोढरागेण विलोलतारकं
तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तथा
पुरो’पि मोहाद् गलितं न लक्षितम् ॥४१२॥

तस्यैव । (स्व् १९६९, शा।प। ३६३४)

विश्वास-प्रस्तुतिः - ४१३

यातस्यास्तम् अनन्तरं दिनकृतो वेशेन रागान्वितः
स्वैरं शीतकरः करं कमलिनीम् आलिङ्गितुं योजयन् ।
शीतस्पर्शम् अवाप्य सम्प्रति तथा गुप्ते मुखाम्भोरुहे
हासेनेव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ॥४१३॥

मूलम् - ४१३

वसुकल्पस्य । (सु।र। ९२२, म्न् २।४२)

विश्वास-प्रस्तुतिः - ४१४

प्राचीम् अञ्चति यामिनीम् अनूनयत्य् आशाः समालम्बते
द्याम् आलिङ्गति सेवते कुमुदिनीं स्निग्धो’तिमुग्धैः करैः ।
बह्वीषु प्रतिपन्नमन्मथरसं कुर्वन् मनः कामिना
मिन्दुर् वन्द्यकरः स एष भुवनानन्दः परिस्पन्दते ॥४१४॥

मूलम् - ४१४

कस्यचित् ।

विश्वास-प्रस्तुतिः - ४१५

कलाधारो वक्रः स्फुरदधररागो नवतनु
र्गलन्मानावेशास् तरुणरमणीर् नागर इव ।
घनश्रोणीबिम्बे नयनमुकुले चाधरदले
कपोले ग्रीवायां कुचकलशयोश् चुम्बति शशी ॥४१५॥

मूलम् - ४१५

श्रीकण्ठस्य । (सु।र। ९०१)