विश्वास-प्रस्तुतिः - ४०६
शशिनम् असूत प्राची नृत्यति मदनो हसन्ति ककुभो’पि ।
कुमुदरजःपटवासं विकिरति गगनाÌगने पवनः ॥४०६॥
मूलम् - ४०६
शशिनम् असूत प्राची नृत्यति मदनो हसन्ति ककुभो’पि ।
कुमुदरजःपटवासं विकिरति गगनाÌगने पवनः ॥४०६॥
धर्मकीर्तेः । (सु।र। ९१९)
विश्वास-प्रस्तुतिः - ४०७
तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका
कपाटघ्नीम् इन्दुः किरणलहरीम् उल्ललयति ।
समन्ताद् उन्मीलद्बहुजलबिन्दुव्यतिकरै
र्यथा पुञ्जायन्ते प्रतिगुणकमेणाङ्कमणयः ॥४०७॥
मूलम् - ४०७

मुरारेः । (अर् २।७८, सु।र। ९१५)
विश्वास-प्रस्तुतिः - ४०८
स श्रीकण्ठकिरीटकुट्टिमपरिष्कारप्रदीपाङ्कुरो
देवः कैरवबन्धुर् अन्धतमसप्राग्भारकुक्षिम्भरिः ।
संस्कर्ता निजकान्तमौक्तिकमणिश्रेणीभिर् एणीदृशां
गीर्वाणाधिपतेः सुधारसवती पौरोगवः प्रोदगात् ॥४०८॥
मूलम् - ४०८

तस्यैव । (अर्। ७।६१)
विश्वास-प्रस्तुतिः - ४०९
आमोदं कुमुदाकरेषु विपदं पद्मेषु कालानलं
पञ्चेषोर् विशिखेषु सान्द्रशिशिरक्षारं शशिग्रावसु ।
म्लानिं मानवतीमुखेषु विनयं चेतःसु वामभ्रुवां
वृद्धिं वार्धिषु निक्षिपन्न् उदयते देवस् तमीकामुकः ॥४०९॥
मूलम् - ४०९

शङ्करदेवस्य ।
विश्वास-प्रस्तुतिः - ४१०
सौरातपविरहज्वललङ्घितगात्रीं कुमुद्वतीं निभृतः ।
संरक्तः परिपश्यन् विधुर् अयम् अयते प्रसादयितुम् ॥४१०॥
मूलम् - ४१०

कस्यचित् ।