०८१ सतारश् चन्द्रः

विश्वास-प्रस्तुतिः - ४०१

मृगेन्द्रस्येव चन्द्रस्य मयूखैर् नखरैर् इव ।
पाटितध्वान्तमातङ्गमुक्ताभा भान्ति तारकाः ॥४०१॥

मूलम् - ४०१

मृगेन्द्रस्येव चन्द्रस्य मयूखैर् नखरैर् इव ।
पाटितध्वान्तमातङ्गमुक्ताभा भान्ति तारकाः ॥४०१॥

अभिनन्दस्य । (सु।र। ९४८)

विश्वास-प्रस्तुतिः - ४०२

तारास्तोकतमिस्रधूमपटलीव्यापारसन्ध्यानन
ज्वालालीढनभःकपालविचलल्लाजश्रियं बिभ्रति ।
किं चायं रजनीपतिः परिणतप्राग्भारतालद्रवो
न्मिश्रं चिक्कणपिण्डमण्डकलसल्लावण्यम् आरोहति ॥४०२॥

मूलम् - ४०२

कस्यचित् ।

विश्वास-प्रस्तुतिः - ४०३

उदयगिरिसौधशिखरे ताराचयचित्रिताम्बरविताने ।
सिंहासनम् इव निहितं चन्द्रः कन्दर्पभूपस्य ॥४०३॥

मूलम् - ४०३

उदयगिरिसौधशिखरे ताराचयचित्रिताम्बरविताने ।
सिंहासनम् इव निहितं चन्द्रः कन्दर्पभूपस्य ॥४०३॥

कस्यचित् ।

विश्वास-प्रस्तुतिः - ४०४

ताराकोरकराजिभाजि गगनोद्याने तमोमक्षिकाः
सन्ध्यापल्लवपातिनीः कवलयन्न् एकान्ततस् तर्कय ।
एतस्मिन्न् उदयान्तपर्वततरुद्वन्द्वान्तराले ततै
रेतैर् भाति गभस्तितन्तुपटलैः श्वेतोर्णनाभः शशी ॥४०४॥

मूलम् - ४०४

हरेः । (सु।र। ९५६)

विश्वास-प्रस्तुतिः - ४०५

अयम् उदयमहीध्रधातुरागै
ररुणकरारुणिताम्बराभिरामः ।
वितरसि न दृशौ कृशाङ्गि तारा
मिव दिवि वन्दितुम् इन्दुर् अभ्युपैति ॥४०५॥

मूलम् - ४०५

हरिदत्तस्य ।