०७९ कलङ्कः

विश्वास-प्रस्तुतिः - ३९१

महानीलश्यामं नरकरिपुवक्षो वियद् इदं
ततांशुश्रेणीकस् तुहिनकिरणः कौस्तुभमणिः ।
कलङ्को’प्य् एतस्य प्रमुखनिवसत्तोयाधिसुता
स्तनासङ्गस्फूर्जन्मदलिखितपत्रप्रतिकृतिः ॥३९१॥

मूलम् - ३९१

महानीलश्यामं नरकरिपुवक्षो वियद् इदं
ततांशुश्रेणीकस् तुहिनकिरणः कौस्तुभमणिः ।
कलङ्को’प्य् एतस्य प्रमुखनिवसत्तोयाधिसुता
स्तनासङ्गस्फूर्जन्मदलिखितपत्रप्रतिकृतिः ॥३९१॥

सुरभेः ।

विश्वास-प्रस्तुतिः - ३९२

किरद्वारां धारा इव किरणधाराः प्रतिदिशं
तुषारांशोर् बिम्बं मणिघटितधारागृहम् इव ।
इहायं कस्तूरीहरिणमदपङ्काङ्किततनुः
कलङ्कव्याजेन प्रतिवसति कन्दर्पनृपतिः ॥३९२॥

मूलम् - ३९२

किरद्वारां धारा इव किरणधाराः प्रतिदिशं
तुषारांशोर् बिम्बं मणिघटितधारागृहम् इव ।
इहायं कस्तूरीहरिणमदपङ्काङ्किततनुः
कलङ्कव्याजेन प्रतिवसति कन्दर्पनृपतिः ॥३९२॥

प्रतिनन्दस्य ।

विश्वास-प्रस्तुतिः - ३९३

शेषस्याहेर् व्रजति तुलनां मण्डलीभूतमूर्तेर्
इन्दुः कुन्दस्तवकविशदः पार्वणो’यं यथैव ।
व्योमाभोधौ सजलजलदश्यामरोचिस् तथोच्चैर्
अङ्कः शङ्काम् अयम् अपि हरेस् तत्र सुप्तस्य धत्ते ॥३९३॥

मूलम् - ३९३

शेषस्याहेर् व्रजति तुलनां मण्डलीभूतमूर्तेर्
इन्दुः कुन्दस्तवकविशदः पार्वणो’यं यथैव ।
व्योमाभोधौ सजलजलदश्यामरोचिस् तथोच्चैर्
अङ्कः शङ्काम् अयम् अपि हरेस् तत्र सुप्तस्य धत्ते ॥३९३॥

राजशेखरस्य ।

विश्वास-प्रस्तुतिः - ३९४

स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बम् अम्बरोद्याने ।
किरणजलसिक्तलाञ्छनबालतमालैकविटपस्य ॥३९४॥

मूलम् - ३९४

स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बम् अम्बरोद्याने ।
किरणजलसिक्तलाञ्छनबालतमालैकविटपस्य ॥३९४॥

तस्यैव । (सु।र। ९२८)

विश्वास-प्रस्तुतिः - ३९५

यथायं भात्य् अंशून् दिशि दिशि किरन् कुन्दविशदान्
शशाङ्कः काश्मीरीकुचकलशशलावण्यघटितः ।
तथायं कस्तूरीमसिलिखितमुद्रामतितुलां
नवाम्भोदच्छेदच्छविर् अपि समारोहति मृगः ॥३९५॥

मूलम् - ३९५

यथायं भात्य् अंशून् दिशि दिशि किरन् कुन्दविशदान्
शशाङ्कः काश्मीरीकुचकलशशलावण्यघटितः ।
तथायं कस्तूरीमसिलिखितमुद्रामतितुलां
नवाम्भोदच्छेदच्छविर् अपि समारोहति मृगः ॥३९५॥

शर्वस्य । (सु।र। ९३९)