०७८ ज्योत्स्ना

विश्वास-प्रस्तुतिः - ३८६

शीतांशुः शशिकान्तनिर्मलशिला तस्यां प्रसुप्तः सुखं
जग्ध्वा ध्वान्ततृणाङ्कुरान् मृगशिशुः खण्डेन्द्रनीलत्विषः ।
निद्रामुद्रितलोचनालसतया रोमन्थफेनच्छटां
रोदःकन्दरपूरणाय तनुते ज्योत्स्नाच्छलेनामुना ॥३८६॥

मूलम् - ३८६

कापालिकस्य ।

विश्वास-प्रस्तुतिः - ३८७

सम्प्रत्य् आक्रमते पुरन्दरपुरीकासारकह्लारिणी
कोषोद्धाटनकुञ्जिकाः प्रकटयन्न् आरम्भतः कौमुदीः ।
पौरस्त्याद्रितटीकुटुम्बि मृगयुव्यापारितास्त्रव्यध
व्यङ्गक्रोडकुरङ्गसङ्गलदसृक्संसर्गशोणः शशी ॥३८७॥

मूलम् - ३८७

अपिदेवस्य ।

विश्वास-प्रस्तुतिः - ३८८

कर्पूरद्रवशीकरोत्करमहानीहारमग्नाम् इव
प्रत्यग्रामृतफेनपङ्कपटलीलेपोपदिग्धाम् इव ।
स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्ताम् इव क्ष्माम् इमां
कुर्वन् पार्वणशर्वरीपतिर् असाव् उद्दाम विद्योतते ॥३८८॥

मूलम् - ३८८

परमेश्वरस्य । (सु।र। ९३७)

विश्वास-प्रस्तुतिः - ३८९

सद्यःपाटितकेतकोदरदलश्रेणीश्रियं बिभ्रती
येयं मौक्तिकदामगुम्फनविधौ योग्यच्छविः प्राग् अभूत् ।
उन्मेयाकलशीभिर् अञ्जलिपुटैर् ग्राह्या मृणालाङ्कुरैः
पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥३८९॥

मूलम् - ३८९

राजशेखरस्य । (शा।प। ३६३८, सू।मु। ७२।१५, सु।र। ९५२)

विश्वास-प्रस्तुतिः - ३९०

क्षीरोदाम्भसि मज्जतीव दिवसव्यापारखिन्नं जगत्
तत् क्षोभाज् जलबुद्बुदा इव भवन्त्य् आलोहितास् तारकाः ।
चन्द्रः क्षीरम् इव क्षरत्य् अविरतं धारासहस्रोत्करैर्
उद्ग्रीवैस् तृषितैर् इवाद्य कुमुदैर् ज्योत्स्नापयः पीयते ॥३९०॥

मूलम् - ३९०

विक्रमादित्यचण्डालविद्याकालिदासानाम् । (सु।र। ९२७)