०७७ चन्द्ररश्मिः

विश्वास-प्रस्तुतिः - ३८१

ये पूर्वं यवशूकसूचिसुहृदो ये केतकाग्रच्छद
च्छायाधामभृतो मृणाललतिका लावण्यभाजश् च ये ।
ये धाराम्बुविडम्बिनः क्षणम् अथो ये तारहारश्रियस्
ते’मी स्फाटिकदण्डडम्बररुचो जाताः सुधांशोः कराः ॥३८१॥

मूलम् - ३८१

राजशेखरस्य । (वि।शा।भ। ३।१०, सु।र। ९५३)

विश्वास-प्रस्तुतिः - ३८२

कपाले मार्जारः पय इति करान् लेढि शशिनः
तरुच्छिद्रप्रोतान् बिसम् इति करी सङ्कलयति ।
रतान्ते तल्पस्थान् हरति वनिताप्य् अंशुकम् इति
प्रभामत्तश् चन्द्रो जगद् इदम् अहो विह्वलयति ॥३८२॥

मूलम् - ३८२

तस्यैव । (क्प् ५४६, स्व्। १९९४, स।क।आ। ३।११४, सु।र। ९०५)

विश्वास-प्रस्तुतिः - ३८३

निद्रानन्दकरीर् नितान्तधवला आमोदिनीर् अप्य् अमूः
पीयूषं मधु वर्षतीर् अपि तमोभृङ्गान् निराकुर्वतीः ।
आकाशद्रुममञ्जरीर् इव विधोर् भासः ककुप्कामिनी
लीलोत्तंसरुचः करोति नियतं बाणान् प्रसूनायुधः ॥३८३॥

मूलम् - ३८३

सुरभेः ।

विश्वास-प्रस्तुतिः - ३८४

एतैर् जह्नुसुताजलैर् अयमुनाभिन्नैर् अलग्नाञ्जनैर्
नारीणां नयनैर् अकर्दमलवालिप्तैर् मृणालाङ्कुरैः ।
हारैर् अस्फुरदिन्द्रनीलतरलैः कुन्दैर् अलीनालिभिर्
वेल्लद्भिर् भुवनं विभूषितम् इदं शीतद्युतेर् अंशुभिः ॥३८४॥

मूलम् - ३८४

तस्यैव ।

विश्वास-प्रस्तुतिः - ३८५

हारश्रीसुहृदो रथाङ्गरमणीसन्न्यासपुण्यापगा
वन्दीभूतमधुव्रताब्जकलिकाकाराकवाटार्गलाः ।
उन्मीलन्ति चकोरदैवतसुधापूर्णाहुतीनां स्रुवो
व्योमान्तःपरिमाणसूत्रसरलास् तास् ता हिमांशोः कलाः ॥३८५॥

मूलम् - ३८५

अभिनन्दस्य ।