विश्वास-प्रस्तुतिः - ३७६
अद्यापि स्तनशैलदुर्गविषमे किं मानिनीनां हृदि
स्थातुं वाञ्छति मान एष झगिति क्रोधाद् इवालोहितः ।
उद्यद्दूरतरप्रसारितकरः कर्षत्य् असौ तत्क्षणात्
फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥३७६॥
मूलम् - ३७६
अद्यापि स्तनशैलदुर्गविषमे किं मानिनीनां हृदि
स्थातुं वाञ्छति मान एष झगिति क्रोधाद् इवालोहितः ।
उद्यद्दूरतरप्रसारितकरः कर्षत्य् असौ तत्क्षणात्
फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥३७६॥
वसुकल्पस्य । (म्न् २।४१, सु।र। ९२१, शा।प। ३६३६, सा।द। उन्देर् ७।४, क्प् २३७)
विश्वास-प्रस्तुतिः - ३७७
सद्यः कुङ्कुमपङ्कपिच्छिलम् इव व्योमाङ्गणं कल्पयन्
पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः ।
उद्गच्छत्य् अयम् अच्छमौक्तिकमणिप्रालम्बलम्बैः करैर्
मुग्धानां स्मरलेखवाचनकलाकेलिप्रदीपः शशी ॥३७७॥
मूलम् - ३७७
सद्यः कुङ्कुमपङ्कपिच्छिलम् इव व्योमाङ्गणं कल्पयन्
पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः ।
उद्गच्छत्य् अयम् अच्छमौक्तिकमणिप्रालम्बलम्बैः करैर्
मुग्धानां स्मरलेखवाचनकलाकेलिप्रदीपः शशी ॥३७७॥
राजशेखरस्य । (सु।र। ९०८)
विश्वास-प्रस्तुतिः - ३७८
सलीलं लिम्पद्भिर् धवलधवलैर् अम्बरतलं
करौघैः कह्लारप्रसवनवकर्मस्थपतिभिः ।
चकोरस्तोमानाम् अमृतघृतकुल्याम् उपनयन्न्
अयं देवः प्राचीम् अवतरति ताराप्रैवृढः ॥३७८॥
मूलम् - ३७८
सलीलं लिम्पद्भिर् धवलधवलैर् अम्बरतलं
करौघैः कह्लारप्रसवनवकर्मस्थपतिभिः ।
चकोरस्तोमानाम् अमृतघृतकुल्याम् उपनयन्न्
अयं देवः प्राचीम् अवतरति ताराप्रैवृढः ॥३७८॥
हरेः ।
विश्वास-प्रस्तुतिः - ३७९
गोरोचनारुचकभङ्गपिशङ्ग्ताङ्गस्
तारापतिर् मसृणम् आक्रमते क्रमेण ।
गोभिर् नवीनबिसतन्तुवितानगौरैर्
आढ्यम्भविष्णुर् अयम् अम्बरम् आवृणोति ॥३७९॥
मूलम् - ३७९
गोरोचनारुचकभङ्गपिशङ्ग्ताङ्गस्
तारापतिर् मसृणम् आक्रमते क्रमेण ।
गोभिर् नवीनबिसतन्तुवितानगौरैर्
आढ्यम्भविष्णुर् अयम् अम्बरम् आवृणोति ॥३७९॥
कस्यचित् । (सु।र। ९४५)
विश्वास-प्रस्तुतिः - ३८०
रसातलस्थानविसारिणीं हरन्
प्रभां मृणालीम् इव धौतकर्दमाम् ।
समुत्पपातार्द्रतनूरुहः शनैर्
उदन्वतो हंस इव क्षपाकरः ॥३८०॥
मूलम् - ३८०
रसातलस्थानविसारिणीं हरन्
प्रभां मृणालीम् इव धौतकर्दमाम् ।
समुत्पपातार्द्रतनूरुहः शनैर्
उदन्वतो हंस इव क्षपाकरः ॥३८०॥
भृङ्गस्वामिनः ।