विश्वास-प्रस्तुतिः - ३७१
एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ
दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषि ।
कर्पूरैः किम् अपूरि किं मलयजैर् आलेपि किं पारदैर्
अक्षालि स्फटिकोपलैः किम् अघटि द्यावापृथिव्योर् वपुः ॥३७१॥
मूलम् - ३७१

वसुकल्पस्य । (शा।प। ३६३९, सु।र। ९००)
विश्वास-प्रस्तुतिः - ३७४
जनानन्दश् चन्द्रो भवतु न कथं नाम सुकृती
प्रयातोवस्थाभिस् तिसृभिर् अपि यः कोटिम् इयतीम् ।
भ्रुवोर् लीलां बालः शिर्यम् अलिकपट्टस्य तरुणो
मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥३७४॥
मूलम् - ३७४

मुरारेः । (सु।र। ४२५, सू।मु। ५३।३३)
विश्वास-प्रस्तुतिः - ३७५
निर्यासैः करपत्रपीडनवशान् निर्यद्भिर् इन्दूपलान्
मानग्रन्थिभिर् अश्रमेण कठिनैस् त्रुट्यद्भिर् एणीदृशाम् ।
देवो’यं परिपष्टचक्रहृदयाद् उत्सर्पिभिः पावकैर्
व्यक्ताहङ्कृतिर् अभ्युदेति तमसां माराङ्कमल्लः शशी ॥३७५॥
मूलम् - ३७५