०७० लक्ष्म्युपालम्भः

विश्वास-प्रस्तुतिः - ३४६

कोपस् तेज इति ग्रहः स्थितिर् इति क्रीडेति दुश्चेष्टता
माया च व्यवहारकौशलम् इति स्वच्छत्वम् इत्य् अज्ञता ।
दौर्जन्यं स्फुटवादितेति धनिनाम् अग्रे बुधैर् यद्वशाद्
दोषो’पि व्यपदिश्यते गुणतया तस्यै नमो’स्तु श्रिये ॥३४६॥

मूलम् - ३४६

शालूकस्य ।

विश्वास-प्रस्तुतिः - ३४७

रत्नाकरस् तव पिता स्थितिर् अम्बुजेषु
भ्राता तुषारकिरणः पतिर् आदिदेवः ।
केनापरेण कमले बत शिक्षितासि
सारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥३४७॥

मूलम् - ३४७

रत्नाकरस् तव पिता स्थितिर् अम्बुजेषु
भ्राता तुषारकिरणः पतिर् आदिदेवः ।
केनापरेण कमले बत शिक्षितासि
सारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥३४७॥

कस्यचित् । (सु।र। १५१६)

विश्वास-प्रस्तुतिः - ३४८

कस्मैचित् कपटाय कैटभरिपूरःपीठदीर्घालयां
देवि त्वामभिवाद्य कुप्यसि न चेत् तत् किञ्चिदाचक्ष्महे ।
यत् ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते
नीचान्नीचतरोपसर्पणमपामेतत् किमाचार्यकम् ॥३४८॥

मूलम् - ३४८

कस्मैचित् कपटाय कैटभरिपूरःपीठदीर्घालयां
देवि त्वामभिवाद्य कुप्यसि न चेत् तत् किञ्चिदाचक्ष्महे ।
यत् ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते
नीचान्नीचतरोपसर्पणमपामेतत् किमाचार्यकम् ॥३४८॥

मुरारेः । (अर् ७।४३)

विश्वास-प्रस्तुतिः - ३४९

अस्मान् मा भज कालकूटभगिनि स्वप्ने’पि पद्मालये
व्याधीभूय कदर्थयन्ति बहुशो मातर् विकारा इमे ।
यच् चक्षुर् न निरीक्षतेच्छविषयं नैवं शृणोति श्रुतिः
प्राणा एव वरं प्रयान्ति न पुनर्निर्यान्ति वाचो बहिः ॥३४९॥

मूलम् - ३४९

अस्मान् मा भज कालकूटभगिनि स्वप्ने’पि पद्मालये
व्याधीभूय कदर्थयन्ति बहुशो मातर् विकारा इमे ।
यच् चक्षुर् न निरीक्षतेच्छविषयं नैवं शृणोति श्रुतिः
प्राणा एव वरं प्रयान्ति न पुनर्निर्यान्ति वाचो बहिः ॥३४९॥

भवग्रामीणवाथोकस्य ।

विश्वास-प्रस्तुतिः - ३५०

लक्ष्मि नीचानुरक्तासि
पुनर् अब्धिविलं विश ।
क्व मन्दर क्व ते देवाः
कस् त्वाम् उत्तोलयिष्यति ॥३५०॥

मूलम् - ३५०

लक्ष्मि नीचानुरक्तासि
पुनर् अब्धिविलं विश ।
क्व मन्दर क्व ते देवाः
कस् त्वाम् उत्तोलयिष्यति ॥३५०॥

कस्यचित् ।