विश्वास-प्रस्तुतिः - ३३६
शान्तं शेते न शेषः स्थगयति तिमिरं कौस्तुभीर् नापि भासः
साम ब्रह्मापि गीत्वा मुकुलितनयनो निद्रया ध्यायतीव ।
लक्ष्म्या कर्णे गदित्वा मृदुकम् इति हरेर् व्रीडया हारि हास्यं
हस्तो हस्तेन नीवीवसनविघटनाद् वारितो वः पुनातु ॥३३६॥
मूलम् - ३३६

कस्यचित् ।
विश्वास-प्रस्तुतिः - ३३७
तिर्यक्त्वाद् अबुधः फणीमणिर्चो’प्य् अस्योपधानीकृतैर्
मन्दारैः स्थगितांशवः स्तनघनस्वेदास्पदं कौस्तुभः ।
नाभीपद्मरजो’न्ध एव सततं वेधा मुधा लज्जसे
लक्ष्मीम् इत्य् अवबोधयन् निधुवनारम्भे हरिः पातु वः ॥३३७॥
मूलम् - ३३७

गणपतेः ।
विश्वास-प्रस्तुतिः - ३३८
मिथ्याकण्डूतिसाचीकृतगलसरणिर् येषु जातो गरुत्मान्
ये निद्रां नाटयद्भिः शयनफणिफणैर् लक्षिता न श्रुताश् च ।
ये च ध्यानानुबन्धच्छलमुकुलदृशा वेधसा नैव दृष्टास्
ते लक्ष्मीं नर्मयन्तो निधुवनविधयः पान्तु वो माधवस्य ॥३३८ ॥
मूलम् - ३३८

राजशेखरस्य (सु।र। १३२)
विश्वास-प्रस्तुतिः - ३३९
उत्तिष्ठन्त्या रतान्ते भरम् उरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विगलितकवरीभारम् अंशं वहन्त्याः ।
भूयस् तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्याम् आलम्ब्य नीतं वपुर् अलसलसद्बाहु लक्ष्म्याः पुनातु ॥३३९ ॥
मूलम् - ३३९

वररुचेः (स।क।आ। २।३३, व् १६५, व्स् १।३; सु।र। १२५, स्व् ७९, शा।प। १३५)
विश्वास-प्रस्तुतिः - ३४०
कचचिबुक कुचाग्रे पाणिषु व्यापृतेषु
प्रथमजलधिपुत्रीसङ्गमे’नङ्गधाम्नि ।
ग्रथितनिविडनीवीबन्धनिर्मोचनार्थं
चतुरधिककराशः पातु वश् चक्रपाणिः ॥३४०॥
मूलम् - ३४०
कचचिबुक कुचाग्रे पाणिषु व्यापृतेषु
प्रथमजलधिपुत्रीसङ्गमे’नङ्गधाम्नि ।
ग्रथितनिविडनीवीबन्धनिर्मोचनार्थं
चतुरधिककराशः पातु वश् चक्रपाणिः ॥३४०॥
दाक्षिणात्यस्य ।