०६७ लक्ष्मीस्वयंवरः

विश्वास-प्रस्तुतिः - ३३१

सोद्वेगं करिकृत्तिवाससि भवद्व्रीडान्वितं ब्रह्मणि
त्रैलोक्यैकगुआव् अनादरवलत्तारं शचीभर्तरि ।
त्रासामीलितपक्ष्म भास्वति लसत्प्रेमप्रसन्नं हरौ
क्षीरोदोत्थितया श्रिया विनिहितं चक्ष्ण्ड्ः शिवायास्तु वः ॥३३१॥

मूलम् - ३३१

विश्वास-प्रस्तुतिः - ३३२

समुद्रमथनव्यग्रसुरसन्दोहनिस्पृहाः ।
लग्नाः कृष्णस्य वक्त्रेन्दौ पान्तु नो दृष्टयः ॥३३२॥

मूलम् - ३३२

समुद्रमथनव्यग्रसुरसन्दोहनिस्पृहाः ।
लग्नाः कृष्णस्य वक्त्रेन्दौ पान्तु नो दृष्टयः ॥३३२॥

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - ३३३

सोत्साहं दधति स्वयंवरमहारङ्गे मिथः स्पर्धया
नेपथ्यप्रतिपन्नचित्तकलनाश्चर्यं सुराणां गणे ।
उद्यान्त्या मकरालयात् कमलया सम्भावितः केन
चिद् दृक्पातेन विरूढगूढहसितानन्दो हरिः पातु वः ॥३३३॥

मूलम् - ३३३

महादेवस्य ।

विश्वास-प्रस्तुतिः - ३३४

आख्याते हसितं पितामह इति त्रस्तं कपालीति च
व्यावृत्तं गुरुर् इत्य् असौ दहन इत्य् आविष्कृता भीरुता ।
पौलोमीपतिर् इत्य् असूयितम् अथ व्रीडावनम्रं श्रिया
पायाद् वः पुरुषोत्तमो’यम् इति च न्यस्तः स पुष्पाञ्जलिः ॥३३४॥

मूलम् - ३३४

क्षेमेश्वरस्य ।

विश्वास-प्रस्तुतिः - ३३५

मुग्धे मुञ्च विषादम् अत्र बलभित् कम्पो गुरुस् त्यज्यतां
सद्भावं भज पुण्डरीकनयने मान्यान् इमान् मानय ।
लक्ष्मीं शिक्षयतः स्वयंवरविधौ धन्वन्तरेर् वाक्छलाद्
इत्य् अन्यप्रतिषेधम् आत्मनि विधिं शृण्वन् हरिः पातु वः ॥३३५॥

मूलम् - ३३५

पुण्डरीकस्य । (स्भ्व् ८४ दाक्षिणात्यस्य कस्यापि, पद्या। ३८४ कस्यचित्)