विश्वास-प्रस्तुतिः - ३२१
श्रेयो’स्याश् चिरम् अस्तु मन्दरगिरेर् माघानि पाश्र्वैर् इय
मावष्टम्भि महोर्मिभिः फणिपतेर् माले’पि लालाविषैः ।
इत्य् आकूतजुषः श्रियं जलनिधेर् अर्धोत्थितां पश्यतो
वाचोन्तःस्फुरिता बहिर् विकृतिभिर् व्यक्ता हरेः पातु वः ॥३२१॥
मूलम् - ३२१

वाक्पतिराजस्य । (सु।र। ११५)
विश्वास-प्रस्तुतिः - ३२२
पाण्डुलक्ष्मीकुचाभोगे नर्तिता हरिणा दृशः ।
औत्सुक्याद् इव तेनादौ निहिता वरणस्रजः ॥३२२॥
मूलम् - ३२२
पाण्डुलक्ष्मीकुचाभोगे नर्तिता हरिणा दृशः ।
औत्सुक्याद् इव तेनादौ निहिता वरणस्रजः ॥३२२॥
श्रीमत्केशवसेनदेवस्य ।
विश्वास-प्रस्तुतिः - ३२३
पातु त्रिलोकीं हरिर् अम्बुराशौ
प्रमथ्यमाने कमलां विलोक्य ।
अज्ञातहस्तच्युतभोगिनेत्रः
कुर्वन् वृथा बाहुगतागतानि ॥३२३॥
मूलम् - ३२३
पातु त्रिलोकीं हरिर् अम्बुराशौ
प्रमथ्यमाने कमलां विलोक्य ।
अज्ञातहस्तच्युतभोगिनेत्रः
कुर्वन् वृथा बाहुगतागतानि ॥३२३॥
त्रिभुवनसरस्वत्याः ।
विश्वास-प्रस्तुतिः - ३२४
ग्राव्णा नासि गिरेः क्षता न पयसाप्य् आर्तासि न म्लापिता
निःश्वासैः फणिनो’सि न त्वअनुगा नायासिता कापि न ।
स्वं वेश्म प्रतिगच्छतोर् इतो मुहुः श्रीशार्ङ्गिणोः सस्पृहं
सा पर्श्नोत्तरयुग्मपङ्क्तिर् उभयोर् अत्यायता पातु वः ॥३२४॥
मूलम् - ३२४

कस्यचित् । (स।क।आ। १।९६)
विश्वास-प्रस्तुतिः - ३२५
पाथोधेः पर्मथ्यमानसलिलाद् अर्धोत्थितायाः श्रियः
सानन्दोल्लसितभुवः कुटिलया दृष्ट्यैव पीताननः ।
अज्ञातस्वकरद्वयीविगलितव्यालोलमन्थोरगः
शून्ये बाहुगतागतानि रचयन् नारायणः पातु वः ॥३२५॥
मूलम् - ३२५

सागरस्य ।