विश्वास-प्रस्तुतिः - ३१६
बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम्
अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥३१६॥
मूलम् - ३१६
बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम्
अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥३१६॥
श्रीकुलशेखरस्य । (मुकुन्दमाला २५)
विश्वास-प्रस्तुतिः - ३१७
नास्था धर्मे न वसुनिचये नैव कामोपभोगे
यद् भाव्यं तद् भवतु भगवन् पूर्वकर्मानुरूपं ।
एतत् प्रार्थ्यं मम बहु मतं जन्मजन्मान्तरे’पि
त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिर् अस्तु ॥३१७॥
मूलम् - ३१७
नास्था धर्मे न वसुनिचये नैव कामोपभोगे
यद् भाव्यं तद् भवतु भगवन् पूर्वकर्मानुरूपं ।
एतत् प्रार्थ्यं मम बहु मतं जन्मजन्मान्तरे’पि
त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिर् अस्तु ॥३१७॥
तस्यैव । (मुकुन्दमाला ७)
विश्वास-प्रस्तुतिः - ३१८
मज्जन्मनः फलं इदं मधुकैतभारे
मत्प्रार्थनीयमदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥३१८॥
मूलम् - ३१८
मज्जन्मनः फलं इदं मधुकैतभारे
मत्प्रार्थनीयमदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥३१८॥
तस्यैव । (मुकुन्दमाला ३२)
विश्वास-प्रस्तुतिः - ३१९
नाहं वन्दे तव चरणयोर् द्वन्द्वम् अद्वन्द्वहेतोः
कुम्भीपाकं गुरुम् अपि हरे नारकं नापनेतुं ।
रम्यारामामृदुतनुलता नन्दने नापि रन्तुं
भावे भावे हृदयभवने भावयेयं भवन्तं ॥३१९॥
मूलम् - ३१९
नाहं वन्दे तव चरणयोर् द्वन्द्वम् अद्वन्द्वहेतोः
कुम्भीपाकं गुरुम् अपि हरे नारकं नापनेतुं ।
रम्यारामामृदुतनुलता नन्दने नापि रन्तुं
भावे भावे हृदयभवने भावयेयं भवन्तं ॥३१९॥
तस्यैव । (मुकुन्दमाला ६)
विश्वास-प्रस्तुतिः - ३२०
मुकुन्द मूर्ध्ना प्रणिपत्य याचे
भवन्तं एकान्तं इयन्तम् अर्थं ।
अविस्मृतिस् त्वच्चरणारविन्दे
भवे भवे मे’स्तु भवत्प्रसादात् ॥३२०॥
मूलम् - ३२०
मुकुन्द मूर्ध्ना प्रणिपत्य याचे
भवन्तं एकान्तं इयन्तम् अर्थं ।
अविस्मृतिस् त्वच्चरणारविन्दे
भवे भवे मे’स्तु भवत्प्रसादात् ॥३२०॥
तस्यैव । (मुकुन्दमाला ४)