विश्वास-प्रस्तुतिः - ३११
सेयं द्योस् तद् इदं शशाङ्कदिनकृच्चिह्नं नभः सा क्षितिस्
तत्पातालतलं त एव गिरयस् ते’म्भोधरास् ता दिशः ।
इत्थं नाभिविनिर्गतेन सशिरःकम्पाद्भुतं वेधसा
यस्यान्तश् च बहिश् च दृष्टम् अखिलं त्रैलोक्यम् अव्यात् स वः ॥३११॥
मूलम् - ३११

वाक्पतिराजस्य । (सु।र॥ १३७)
विश्वास-प्रस्तुतिः - ३१२
लक्ष्मीं यत् परिचारिकेति नयनं यस्येति यासां पतिं
यत्पादार्धभवेति नाकसरितं येनोद्धृतेति श्रुतिम् ।
ईशं यत् तनुभागभाग् इति जनः शुश्रूषते सादरं
भूयाद् विश्वनमस्यमानमहिमा भूत्यै स वः केशवः ॥३१२॥
मूलम् - ३१२

समन्तभद्रस्य ।
विश्वास-प्रस्तुतिः - ३१३
संसारार्तिपरिश्रमाध्वविटपी क्षीरोदवापीपयः
क्रीडानाटकनायको विजयते सत्कर्मबीजाङ्कुरः ।
दैत्यस्त्रीस्तनपालिपाणिजपदव्यालोपिशिल्पीत् तरी
देवः श्रीवदनेन्दुबिम्बलडहज्योत्स्नाचकोरो हरिः ॥३१३॥
मूलम् - ३१३

भानीः ॥
विश्वास-प्रस्तुतिः - ३१४
बीजं ब्रह्मैव देवो मधुजलनिधयः कर्णिका स्वर्णशैलः
कन्दो नागाधिराजो वियद् अपि विपुलः पत्रकोशावकाशः ।
द्वीपाः पत्राणि मेघा मधुपकुलम् अभूत् तारकागर्भधूलिर्
यस्यैतन्नाभिपद्मं भुवनम् इति स वः शर्म देवो दधातु ॥३१४॥
मूलम् - ३१४

हलायुधस्य । (सु।र। १४६)
विश्वास-प्रस्तुतिः - ३१५
यं लक्ष्मीर् उपजीवति स्म भजते यं भारती सम्भ्रमा
देतस्मै किम् उ कीयतां कथम् असाव् अस्मादृशैः स्तूयताम् ।
सेव्यो वा कथम् एष यस्य शिरसा धत्ते पदार्घ्यं शिव
स्तस्मात् कृत्यम् अजानतो मम मनोवृत्तेः प्रमाणं हरिः ॥३१५॥
मूलम् - ३१५

तिलचन्द्रस्य ।