विश्वास-प्रस्तुतिः - ३०६
ते गोवर्धनकन्दराः स यमुनाकच्छः स चेष्टारसो
भाण्डीरः स वमस्पतिः सहचरास् ते तच् च गोष्ठाङ्गनम् ।
किं द्वारवतीभुजङ्ग हृदयं नायाति दोषैर् अपीत्य्
अव्याद् वो हृदि दुःसहं व्रजवधूसन्देशशल्यं हरेः ॥३०६॥
मूलम् - ३०६

नीलस्य । (पद्या। ३७५)
विश्वास-प्रस्तुतिः - ३०७
पान्थ द्वारवतीं प्रयासि यदि हे तद् देवकीनन्दनो
वक्तव्यः स्मरमोहमन्त्रविवशो गोप्यो’पि नामोज्झिताः ।
एताः केलिकदम्बधूलिपटलैर् आलोकशून्या दिशः
कालिन्दीतटभूमयो भवतो नायान्ति चित्तास्पदम् ॥३०७॥
मूलम् - ३०७

गोवर्धनाचार्यस्य । (पद्या। ३७४; Çऋङ्गारप्रकाश, छेच्क् सु।र।)
विश्वास-प्रस्तुतिः - ३०८
उपनय मसिं पत्रं चेदं लिखामि किम् अत्र वा
त्वम् इति विनयभ्रंशो यूयं त्विति प्रणयक्षतिः ।
सुहृद् इति मृषा नाथेत्य् ऊनं नृपेति तटस्थता
कथम् इति ततः सन्देष्टव्यो मया यदुनन्दनः ॥३०८॥
मूलम् - ३०८

पुंसोकस्य ॥
विश्वास-प्रस्तुतिः - ३०९
कालिन्द्याः पुलिनं प्रदोषमरुतो रम्याः शशङ्कांशवः
सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात् पुनः ।
सन्दिष्टं व्रजयोषिताम् इति हरेः संशृण्वतो’न्तःपुरे
निःश्वासाः प्रसृता जयन्ति रमणीसौभाग्यगर्वच्छिदः ॥३०९॥
मूलम् - ३०९

पञ्चतन्त्रकृतः । (पद्या। ३७६, उ।नी। १५।१६४)
विश्वास-प्रस्तुतिः - ३१०
मथुरापथिक मुरारेर्
उपगेयं द्वारि वल्लवीवचनम् ।
पुनर् अपि यमुनासलिले
कालियगरलानलो ज्वलति ॥३१०॥
मूलम् - ३१०
मथुरापथिक मुरारेर्
उपगेयं द्वारि वल्लवीवचनम् ।
पुनर् अपि यमुनासलिले
कालियगरलानलो ज्वलति ॥३१०॥
वीरसरस्वत्याः । (पद्या। ३६८; उ।नी। १०।९८)