०५९ कृष्णभुजः

विश्वास-प्रस्तुतिः - २९१

भ्राम्यद्भास्वरमन्दराद्रिशिखरव्याघट्टनाद् विस्फुरत्
केयूराः पुरुहूतकुञ्जरकरप्राग्भारसंवर्धिनः ।
दैत्येन्द्रप्रमदाकपोलविलसत्पत्राङ्कुरच्छेदिनो
दोर्दण्डाः कलिल्कालकल्मषमुषः कंसद्विषो पातु वः ॥२९१॥

मूलम् - २९१

कस्यचित् । (पद्या। ३८६)

विश्वास-प्रस्तुतिः - २९२

लक्ष्म्याः केशप्रसवरजसां बिन्दुभिः सान्द्रपातैर्
उद्वर्णश्रीर् घननिधुवनक्लान्तिनिद्रान्तरेषु ।
दोर्दण्डो’सौ जयति जयिनः शार्ङ्गिणो मन्दराद्रि
ग्रावश्रेणिकषमसृणक्षुण्णुकेयूरपत्रः ॥२९२॥

मूलम् - २९२

भगीरथस्य । (सु।र। १४२)

विश्वास-प्रस्तुतिः - २९३

ये गोवर्धनमूलकर्दमरसव्यादष्टबर्हच्छदा
ये वृन्दावनकुक्षिषु व्रजवधूलीलोपधानानि च ।
ये चाभ्यङ्गसुगन्धयः कुवलयापीडस्य दानाम्भसा
ते वो मङ्गलम् आदिशन्तु सततं कंसद्विषो बाहवः ॥२९३॥

मूलम् - २९३

शुभाङ्कस्य । (पद्या। ४)

विश्वास-प्रस्तुतिः - २९४

जयश्रीविन्यस्तैर् महित इव मन्दारकुसुमैः
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
प्रकीर्णासृग्बिन्दुर् जयति भुजदण्डो मुरजितः ॥२९४॥

मूलम् - २९४

जयदेवस्य । (ग्ग् ११।३५)

विश्वास-प्रस्तुतिः - २९५

पान्तु वो जलदश्यामाः
शार्ङ्गज्याघातकर्कशाः ।
त्रैलोक्यनगरस्तम्भाश्
चत्वारो हरिबाहवः ॥२९५॥

मूलम् - २९५

पान्तु वो जलदश्यामाः
शार्ङ्गज्याघातकर्कशाः ।
त्रैलोक्यनगरस्तम्भाश्
चत्वारो हरिबाहवः ॥२९५॥

श्रीव्यासपादानाम् । (शा।प। ११३)