०५८ गीतम्

विश्वास-प्रस्तुतिः - २८६

सञ्जाते विरहे कयापि हृदये सन्दानिते चिन्तया
कालिन्दीतटवेतसीवनघनच्छायानिषण्णात्मनः ।
पायासुः कलकण्ठकूजितकला गोपस्य कंसद्विषो
जिह्वावर्जिततालुमूर्च्छितमरुद्विस्फारिता गीतयः ॥२८६॥

मूलम् - २८६

कस्यचित् । (पद्या। २४०)

विश्वास-प्रस्तुतिः - २८७

कालिन्दीजलकुञ्जवञ्जुलवनच्छायानिषण्णात्मनो
राधाबद्धनवानुरागरसिकस्योत्कण्ठितं गायतः ।
तत् पायाद् अपरिस्खलज्जलरुहापीडं कलस्पृङ्नत
ग्रीवोत्तानितकर्णतर्णककुलैर् आकर्ण्यमानं हरेः ॥२८७॥

मूलम् - २८७

उद्भटस्य ।

विश्वास-प्रस्तुतिः - २८८

देवस् त्वाम् एकजङ्घावलयितगुडीमूर्ध्नि विन्यस्तबाहुर्
गायन् गोयुद्धगीतिर् उपरचितशिरःशेखरः प्रग्रहेण ।
दर्पस्फूर्जन् महोक्षद्वयसमरकलाबद्धदीर्घानुबन्धः
क्रीडागोपालमूर्तिर् मुररिपुर् अवताद् आत्तगोरक्षलीलः ॥२८८॥

मूलम् - २८८

योगेश्वरस्य । (सु।र। १२९, सोन्नोकस्य; पद्या। १५२)

विश्वास-प्रस्तुतिः - २८९

याते द्वारवतीपुरं मुररिपौ तद्वस्त्रसंव्यानया
कालिन्दीतटकुञ्जवञ्जुललताम् आलाम्ब्य सोत्कण्ठया ।
उद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया
येनान्तर्जलचारिभिर् जलचरैर् अप्य् उत्कम् उत्कूजितम् ॥२८९॥

मूलम् - २८९

कस्यचित् । (ध्व्, वक् २।५९; एत्च्।; पद्या। ३७३ अपराजितस्य, उ।नी। १४।१८८)

विश्वास-प्रस्तुतिः - २९०

यानि तच्चरितामृतानि रसनालेह्यानि धन्यात्मनां
ये वा शैशवचापल्यव्यतिकरा राधावरोधोन्मुखाः ।
या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे
धारावाहिकया वहन्तु हृदये तान्य् एव तान्य् एव मे ॥२९०॥

मूलम् - २९०

कस्यचित् । (क्क १।१०६)