०५४ कृष्णयौवनम्

विश्वास-प्रस्तुतिः - २६६

सोत्तापं जरतीत्भिर् अफुटरसं बालाभिर् उन्मीलित
श्वासं वेश्म सुवासिनीभिर् अधिकाकृतं भुजिष्याजनैः ।
प्रत्यग्रप्रकटीकृतार्ति कुलटासार्थेन दृष्टं हरेर्
अव्याद् वो नवयौवनोत्सवदशानिर्व्याजमुग्धं वपुः ॥२६६॥

मूलम् - २६६

भट्टशालीयपीताम्बरस्य ।

विश्वास-प्रस्तुतिः - २६७

राधायाम् अनुबद्धनर्मनिभृताकारं यशोदाभयाद्
अभ्यर्णेष्व् अतिनिर्जनेषु यमुनारोधोलतावेश्मसु ।
मन्दाक्षश्लथवल्लवानुकरणक्रीडस्य कंसद्विषो
लब्धं यौवनमात्रया विजयते गम्भीरशोभं वपुः ॥२६७॥

मूलम् - २६७

अभिनन्दस्य ।

विश्वास-प्रस्तुतिः - २६८

वत्स त्वं नवयौवनो’सि चपलाः प्रायेण गोपस्त्रियः
कंसो भूपतिर् अब्जनालभिदुरग्रीवा वयं गोदुहः ।
सैषानर्थपरम्परेति भगवत्य् आशङ्क्तातिक्रमे
कृष्णे तद्विनयाय नन्दगृहिणीशिक्षोक्तयः पान्तु वः ॥२६८॥

मूलम् - २६८

वर्धमानस्य ।

विश्वास-प्रस्तुतिः - २६९

आरूढान्तरयौवनस्य परितो गोष्ठीर् अनुभ्राम्यतस्
तत् तत् तासु मनोगतं सुनिभृतं संव्याचिकीर्षोर् हरेः ।
वेगाद् उच्छलितास्फुटाक्षरदशा गर्भास्त्रपागौरवात्
प्रत्यञ्चो वलिता भवन्तु भवतां कृत्याय वागूर्मयः ॥२६९॥

मूलम् - २६९

चक्रपाणेः ।

विश्वास-प्रस्तुतिः - २७०

आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता
क्षीवः प्रेष्यजनः कथं कुलवधूर् एकाकिनी यास्यति ।
वत्स त्वं तद् इमां नयालयम् इति श्रुत्वा यशोदागिरो
राधामाधवयोर् जयन्ति मधुरस्मेरालसा दृष्टयः ॥२७०॥

मूलम् - २७०

श्रीमत्केशवसेनदेवस्य । (पद्या। २०६)