०५३ कृष्णस्वप्नायितम्

विश्वास-प्रस्तुतिः - २६१

शम्भो स्वागतम् आस्यताम् इत इतो वामेन पद्मोद्भव
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यते ।
इत्थं स्वप्नगतस्य कैटभरिपोः श्रुत्वा जनन्या गिरः
किं किं बालक जल्पसीत्य् अनुचितं थूथूत्कृतं पातु वः ॥२६१॥

मूलम् - २६१

मयूरस्य (क्क २।५९, पद्या। १४६; बा।रा।क् ५।१७५८)

विश्वास-प्रस्तुतिः - २६२

धीरा धरित्रि भाव भारम् अवेहि शान्तं
नन्व् एष कंसहतकं विनिपातयामि ।
इत्य् अद्भुतस्तिमितगोपवधूश्रुतानि
स्वप्नायितानि वसुदेवशिशोर् जयन्ति ॥२६२॥

मूलम् - २६२

धीरा धरित्रि भाव भारम् अवेहि शान्तं
नन्व् एष कंसहतकं विनिपातयामि ।
इत्य् अद्भुतस्तिमितगोपवधूश्रुतानि
स्वप्नायितानि वसुदेवशिशोर् जयन्ति ॥२६२॥

अभिनन्दस्य । (पद्या। १४७)

विश्वास-प्रस्तुतिः - २६३

एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्य् अम्बुदा
मर्माणीव च घट्टयन्त्य् अलम् अमी क्रूराः कदम्बानिलाः ।
इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥२६३॥

मूलम् - २६३

शुभाङ्कस्य । (क्क् २।६९(७०); सु।र। १३१, पद्या। २५२)

विश्वास-प्रस्तुतिः - २६४

कालिन्दीपुलिनान्तवञ्जुललता कुञ्ज कुतश्चित् क्रमात्
सुप्तस्यैव मिथः कथाजुषि शनैः संवाहिकामण्डले ।
वैदेहीं दशकन्धरो’पहरतीत्य् आकर्ण्य कंसद्विषो
हुं हुं वत्स धनुर् धनुर् इति व्यग्रा गिरः पान्तु वः ॥२६४॥

मूलम् - २६४

विरिञ्चेः ।

विश्वास-प्रस्तुतिः - २६५

निर्मग्नेन मयाम्भसि स्मरभयाद् आली समालिङ्गिता
केनालीकम् इदं तवाद्य कथितं राधे मुधा ताम्यसि ।
इत्थं स्वप्नपरम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः
सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः ॥२६५॥

मूलम् - २६५

कस्यचित् । (द।रू। उन्देर् ४।६०, पद्या। ३७२)