विश्वास-प्रस्तुतिः - २५६
वत्स स्थवरकन्दरेषु विचरन् दूरप्रचारे गवां
हिंस्रान् वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि ।
इत्य् उक्तस्य यशोदया मुरारिपोर् अव्याज् जगन्ति स्फुरद्
बिम्बोष्ठद्वयगाढपीडनवशाद् अव्यक्तभावं स्मितम् ॥२५६॥
मूलम् - २५६

अभिनन्दस्य । (सु।र। १४४, पद्या। १४९)
विश्वास-प्रस्तुतिः - २५७
श्यामोच्चन्द्रा स्वपिति न शिशो नैति माम् अम्ब निद्रा
निद्राहेतोः शृणु कथां काम् अपूर्वां कुरुष्व ।
व्यक्तः स्तम्भान् नरहरिर् अभूद् दानवं दारयिष्यन्न्
इत्य् उक्तस्य स्मितम् उदयते देवकीनन्दनस्य ॥२५७॥
मूलम् - २५७

शतानन्दस्य । (सु।र। १२३; प्क् १५१ सर्वानन्दस्य; बा।रा।क् ५।१७६१)
विश्वास-प्रस्तुतिः - २५८
मा दूरं व्रज वत्स तिष्ठति पुरस् ते लूनकर्णो वृकः
पोतान् अत्ति इति प्रपञ्चचतुरोदारा यशोदागिरः ।
आकर्ण्योच्छलदच्छहासविकसद्बिम्बाभदन्तच्छद
द्वन्द्वोदीरितदन्तमौक्तिकमणिः कृष्णः स पुष्णातु वः ॥२५८॥
मूलम् - २५८

कस्यचित् ।
विश्वास-प्रस्तुतिः - २५९
कालिन्दीपुलिने मया न न मया शीलोपशल्ये न न
न्यग्रोधस्य तले मया न न मया राधापितुः प्राङ्गने ।
दृष्टः कृष्ण इतीरिते सनियमं गोपैर् यशोदापतेर्
विस्मेरस्य पुरो हसन् निजगृहान् निर्यन् हरिः पातु वः ॥२५९॥
मूलम् - २५९

उमापतिधरस्य । (पद्या। १४८)
विश्वास-प्रस्तुतिः - २६०
मन्थानम् उज्झ मथितुं दधि न क्षमस् त्वं
बालो’सि वत्स विरमेति यशोदयोक्तः ।
क्षीराब्धिमन्थनविधिस्मृतिजातहासो
वाञ्छास्पदं दिशतु वो वासुदेवसूनुः ॥२६०॥
मूलम् - २६०
मन्थानम् उज्झ मथितुं दधि न क्षमस् त्वं
बालो’सि वत्स विरमेति यशोदयोक्तः ।
क्षीराब्धिमन्थनविधिस्मृतिजातहासो
वाञ्छास्पदं दिशतु वो वासुदेवसूनुः ॥२६०॥
कस्यचित् ।