०४९ बुद्धः

विश्वास-प्रस्तुतिः - २४१

कामक्रोधौ द्वयम् अपि यदि प्रत्यनीकं प्रसिद्धं
हत्वानङ्गं किम् इव हि रुषा साधितं त्र्यम्बकेन ।
यस् तु क्षान्त्या शमयति शतं मन्मथादीनरातीन्
कल्याणं वो दिशतु स मुनिग्रामणीर् अर्कबन्धुः ॥२४१॥

मूलम् - २४१

सङ्घश्रियः । (सु।र। ४)

विश्वास-प्रस्तुतिः - २४२

पादाम्भोजसमीपसन्निपतितस्वर्णाथदेहस्फुरन्
नेत्रस्तोमतया परिस्फुटमिलन्नीलाब्जपूजाविधिः ।
वन्दारुत्रिदशौधरत्रमुकुटोत्सर्पत्प्रभापल्लव
प्रत्युन्मीलदपूर्वचीवरपटः शाक्यो मुनिः पातु वः ॥२४२॥

मूलम् - २४२

वसुकल्पस्य । (सु।र। १५)

विश्वास-प्रस्तुतिः - २४३

कारुण्यामृतकन्दलीसुमनसः प्रज्ञावधूमौक्तिक
ग्रीवालङ्करणश्रियः शमसरित्पूरोच्छलच्छीकराः ।
ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित
स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः ॥२४३॥

मूलम् - २४३

श्रीधरनन्दिनः । (सु।र। ७)

विश्वास-प्रस्तुतिः - २४४

शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्
दानस्कन्धमहोन्नतिः पृथुतरप्रज्ञोल्लसत्पल्लवः ।
देयात् तुभ्यं अवार्थवीर्यविटपः क्षान्तिप्रसूनोद्गमः
सुच्छायः षडभिज्ञकल्पविटपीसम्बोधबीजं फलम् ॥२४४॥

मूलम् - २४४

तस्यैव । (सु।र। ८)

विश्वास-प्रस्तुतिः - २४५

यदाख्यानासङ्गाद् उषसि पुनते वाचम् ऋषयो
यदीयः सङ्कल्पो हृदि सुकृतिनामेव रमते ।
स सार्वः सर्वज्ञः पथि निरपवादे कृतपदो
जिनो जन्तून् उच्चैर् दमयतु भवावर्तपतितान् ॥२४५॥

मूलम् - २४५

मङ्गलस्य ।