०४५ परशुरामः

विश्वास-प्रस्तुतिः - २२१

दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किम् अपरं रामाय तस्मै नमो
यत्रैवाविरभूत् कथाद्भुतम् इदं यत्रैव चास्तङ्गतम् ॥२२१॥

मूलम् - २२१

केशटस्य ।

विश्वास-प्रस्तुतिः - २२२

हा तातेति न जल्पितं न रुदितं न स्वीकृतं तद् धनं
न स्नातं न च वीक्षितः परिजनः पित्रे न दत्तं जलम् ।
यावन् न क्रकचाभिघातविगलद्दाम्नाम् अरीणाम् असृग्
गण्डूषैर् घनघोरघर्घररवाः सन्तर्पिताः फेरवः ॥२२२॥

मूलम् - २२२

तस्यैव ।

विश्वास-प्रस्तुतिः - २२३

शौर्यं शत्रुकुलक्षयावधि यशो ब्रह्माण्डखण्डावधि
त्यागः सप्तसमुद्रमुद्रितमहीनिर्वाजदानावधिः ।
व्र्यं यन्तु गिरां न तत् पथि ननु व्यक्तं हि तत्कर्मभिः
सत्यं ब्रह्मतपोनिधेर् भगवतः किं किं न लोकोत्तरम् ॥२२३॥

मूलम् - २२३

भवभूतेः ।

विश्वास-प्रस्तुतिः - २२४

गोत्राचारविशेषपारगतया वृद्धाभिर् आदिष्टया
मात्रा वस्तुषु तेषु तेषु विशदन्यस्तेषु दृष्टेः पुरः ।
अन्नप्राशनवासरे सरभसं वक्षोभरोत्सर्पिणा
येनात्तं धनुर् ईक्षिताश् च झटिति क्षत्रावतंसा दिशः ॥२२४॥

मूलम् - २२४

विश्वास-प्रस्तुतिः - २२५

त्रिःसप्तावधि वाधिता क्षितिभुजाम् आजन्म वैखानसः
कर्ता मातृवधैनसः स सकलश्रुत्यर्थवीथीगुरुः ।
विश्वस्याश् च भुवः क्रतौ वितरिता श्यामकमुष्टिम्पचो
रामः सो’यम् उदग्रगेयमहिमा कासां गिरां गोचरः ॥२२५॥

मूलम् - २२५

कस्यचित् ।