विश्वास-प्रस्तुतिः - २१६
किं छत्रं किं नु रत्नं तिलकम् अथ तथा कुण्डलं कौस्तुभो वा
चक्रं वा वारिजं वेत्य् अमरयुवतिभिर् यद् बलिध्वंसि देहे ।
ऊर्ध्वं मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं
पायात् तद् वो’र्कबिम्बं स च दनुजरिपुर् वर्धमानः क्रमेण ॥२१६॥
मूलम् - २१६

श्रीहनूमतः ।
विश्वास-प्रस्तुतिः - २१७
ज्योतिश् चक्राक्षदण्डः क्षरदमरसरित्पट्टिका केतुदण्डः
क्षोणीनौकूपदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः ।
ब्रह्माण्डच्छत्र दण्डस् त्रिभुवनस्तम्भदण्डोङ्घ्रिदण्डः
श्रेयस् त्रिविक्रमस् ते वितरतु विबुधद्वेषिणां कालदण्डः ॥२१७॥
मूलम् - २१७

दण्डिनः ।
विश्वास-प्रस्तुतिः - २१८
चञ्चत्पादनखाग्रमण्डलरुचिप्रस्यनिगङ्गाजलो
विस्फूर्जद्बलिराज्यनाशपिशुनोत्पाताम्बुवाहद्युतिः ।
पातु त्वां चरणो हरेः क्रमविधौ यस्याधिकं द्योतते
दूराद् अङ्गुलिमुद्रिकामणिर् इव स्फाराङ्कुशजालो रविः ॥२१८॥
मूलम् - २१८

विक्रमादित्यस्य ।
विश्वास-प्रस्तुतिः - २१९
यत् काण्डं गगनद्रुमस्य यद् अपि क्षोणीतडागोदरे
देवस्यैव यशो’म्बुशोभिनि महायष्टिः प्रतिष्ठाकरी ।
तद् विष्णोः पदम् अन्तरालजलधेर् आधारतो भूतलात्
पारं द्यामुपगन्तुम् उद्यमवतां सेतूभवत् पातु वः ॥२१९॥
मूलम् - २१९

चक्रपाणेः ।
विश्वास-प्रस्तुतिः - २२०
खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षःस्फुरत्कौस्तुभं
निर्यन् नाभिसरोजकुड्मलकुटीगम्भीरसामएध्वनि ।
पात्रावाप्तिसमुत्सुकेन बलिना सानन्दम् आलोकितं
पायाद् वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर् वपुः ॥२२०॥
मूलम् - २२०

वाक्पतिराजस्य । (सु।र। १२४)