विश्वास-प्रस्तुतिः - १९१
दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदः
सिन्धुष्व् अङ्गावगाहः खुरकुहरविशत्तोयतुच्छेषु नाप्तः ।
प्राप्ताः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते
येनोद्धारे धरित्र्याः स जयति विभुताबृंहितेच्छो वराहः ॥१९१॥
मूलम् - १९१

वराहमिहिरस्य । (सु।र। १३४)
विश्वास-प्रस्तुतिः - १९२
अस्ति श्रीस्तनपत्रभङ्गम् अकरीमुद्राङ्कितोरःस्थली
देवः सर्वजगत्पतिर् मधुवधूवक्त्राब्जचन्द्रोदयः ।
क्रीडाक्रोडतनोर् नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्
भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥१९२॥
मूलम् - १९२

नग्नस्य । (सु।र। १०४)
विश्वास-प्रस्तुतिः - १९३
सेयं चन्द्रकलेति नागवन्तिआनेत्रोत्पलैर् अर्चिता
मद्भारापगमक्षमेति फणिना सानन्दम् आलोकिता ।
दिङ्नागैः सरलीकृतायतकरैः स्पृष्टा मृणालाशया
भित्त्वोर्वीम् अभिनिःसृता मधुरिपोर् दंष्ट्रा चिरं पातु वः ॥१९३॥
मूलम् - १९३

केशवस्य ।
विश्वास-प्रस्तुतिः - १९४
घोणाघोराभिधातोच्छलदुदधिजलासारसिक्ताग्ररोमा
रोमाग्रप्रोततारानिकर इति सुरैर् धीरम् आलोकितो वः ।
श्वासाकृष्टावकृष्टप्रविशद् अपसरद् बुध्नबिम्बानुबन्धाद्
आविर् नक्तं दिनश्रीः स दिशतु दुरितध्वंसम् आद्यो वराहः ॥१९४॥
मूलम् - १९४

नरसिंहस्य ।
विश्वास-प्रस्तुतिः - १९५
येनाधोमुखपद्मिनीदलधिया कूर्मश् चिरं वीक्षितो
घ्रातो येन मृणालमुग्धलतिकाबुद्ध्या फणिग्रामणीः ।
यः शालूकम् इवोद्दधार धरणीबिम्बं पुनीताद् असौ
त्वाम् एकार्णवपल्वलैकरसिकः क्रीडावराहो हरिः ॥१९५॥
मूलम् - १९५

कस्यचित् ।