०३८ कूर्मः

विश्वास-प्रस्तुतिः - १८६

पृष्ठभ्राम्यद् अमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्
निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः ।
यत्संस्कारकलानुवर्तनवशाद् वेलाछलेनाम्भसां
यातायातम् अयन्त्रितं जलनिधेर् नाद्यापि विश्राम्यति ॥१८६॥

मूलम् - १८६

केशटाचार्यस्य । (भ्प् १२।१३।२; सु।र। १०५, वाक्पतिराजस्य; स्व् ३६)

विश्वास-प्रस्तुतिः - १८७

क्षीराब्धौ मथ्यमाने त्रिदशदनुसुतोन्मुक्तकोलाहलौघे
ब्रह्माण्डकाण्डचण्डस्फुटनगुरुरवभ्रान्तिभाजित्रिलोक्याम् ।
सद्यो निर्दावबोधाद् उपरि रयवशक्षिप्तदीर्घक्षितिधा
लग्नग्रीवाप्रकाण्डो जयति कमठराट् चण्डविष्कम्भतुल्यः ॥१८७॥

मूलम् - १८७

वसुसेनस्य ।

विश्वास-प्रस्तुतिः - १८८

पायाद् वो मन्दराद्रिभ्रमणनिकषणाकृष्टपृष्ठाग्रकण्डू
लीनानिद्रालुर् अब्धेः क्षुभितम् अगणयन्न् अद्भुतः कूर्मराजः ।
यस्याङ्गमर्दहेलावशचलितमहाशैलकीला धरित्री
त्वङ्गत्कल्लोलरत्नाकरवलयचलन्मेखला नृत्यतीव ॥१८८॥

मूलम् - १८८

सूरेः ।

विश्वास-प्रस्तुतिः - १८९

पार्श्वास्फालातिवेगाज् झगिति च विरहाद् उच्छलद्भिः पतद्भिर्
भूयो भूयः समुद्रैर् मिहिरमतिरयाद् आपिबद्भिर् वमद्भिः ।
कोटीरस् तोयदानां क्षणम् इव गगने दर्शयन् वः पुनीताद्
प्षद् गात्रावहेलाचलितवसुमतीमण्डलः कूर्मराजः ॥१८९॥

मूलम् - १८९

धरणीधरस्य ।

विश्वास-प्रस्तुतिः - १९०

कुर्मः कूर्माकृतये हरये मुक्तावलम्बनाय नमः ।
पृष्ठे यस्य निषण्णं शैवलवल्लीसमं विश्वम् ॥१९०॥

मूलम् - १९०

भवानन्दस्य ।