०३७ हरेर् मत्स्यावतारः

विश्वास-प्रस्तुतिः - १८१

मत्स्यः पुनातु जगदोङ्कृतिकुञ्चितास्यो
ब्रह्माद्वयप्रणयपीवरमध्यभागः ।
क्रीडन्न् असौ जलधिवीचिभिर् एव नेति
नेत्य् आदराद् इव विभावितपुच्छकम्पः ॥१८१॥

मूलम् - १८१

आवन्त्यकृष्णस्य ।

विश्वास-प्रस्तुतिः - १८२

देव्याः श्रुतेर् दनुजदुर्णयदूषिताया
भूयःसमुद्गमविधाववलम्बभूमिः ।
एकार्णवीभवदशेषपयोधिमध्य
द्वीपं वपुर् जयति मीनतनोर् मुरारेः ॥१८२॥

मूलम् - १८२

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - १८३

ब्रह्माण्डोदरदर्पणे भ्रमिरयोत्क्षिप्ताम्बुधिक्षालिते
सङ्क्रान्ताम् अनिमेषलोचनयुगेनोत्पश्यतः स्वां तनुम् ।
शौरेर् मीनतनोः कृशानुकपिशं पार्श्वद्वयं प्रोल्लसच्
चन्द्रार्काङ्कितकाञ्चनाद्रिशिखराकारं शिरः पातु वः ॥१८३॥

मूलम् - १८३

वसन्तदेवस्य ।

विश्वास-प्रस्तुतिः - १८४

पातु त्रीणि जगन्ति पार्श्वकषणप्रक्षुण्णदिङ्मण्डलो
नैकाब्धिस्तिमितोदरः स भगवान् क्रीडाझषः केशवः ।
त्वङ्गन्निष्ठुरपृष्ठरोमखचितब्रह्माण्डभाण्डावधेर्
यस्योत्फालकुतूहलेन कथम् अप्य् अङ्गेषु जीर्णायितम् ॥१८४॥

मूलम् - १८४

रघुनन्दस्य । (सु।र। १३५)

विश्वास-प्रस्तुतिः - १८५

मत्स्यः पुच्छाभिघातेन तुच्छीकृतमहोदधिः ।
अपर्याप्तजलक्रीडारसो दिशतु वः शिवम् ॥१८५॥

मूलम् - १८५

कस्यचित् ।