०३५ गङ्गा

विश्वास-प्रस्तुतिः - १७१

ब्राह्मं तेजो द्विजानां ज्वलयति जडिमप्रक्रमं हन्ति बुद्धेर्
वृद्धिं सेकेन सद्यः शमयति वलिनो दुष्कृतानोकहस्य ।
ऊर्ध्वं चैवात्र लोकाद् अपि नयतितरां जन्मिनो मग्नमूर्तींस्
त्वद्धारावारि काशीप्रणयिनि परितः प्रक्रिया कीदृशीयम् ॥१७१॥

मूलम् - १७१

कोलाहलस्य ।

विश्वास-प्रस्तुतिः - १७२

दुर्वारदोषतिमिरागमवासरश्रीः
कैवल्यकैरवविकाससितांशुलेखा ।
जीयात् त्रिविष्टपधुनी कलिकालभग्न
गीर्वाणराजनगराकरवैजयन्ती ॥१७२॥

मूलम् - १७२

दुर्वारदोषतिमिरागमवासरश्रीः
कैवल्यकैरवविकाससितांशुलेखा ।
जीयात् त्रिविष्टपधुनी कलिकालभग्न
गीर्वाणराजनगराकरवैजयन्ती ॥१७२॥

ग्रहेश्वरस्य ।

विश्वास-प्रस्तुतिः - १७३

तीर्थाटनैः किम् अधिकं क्षणम् ईक्षिता चेत्
पीतं त्वदम्बु यदि देवि मुधा सुधापि ।
स्नातं यदि त्वयि विरिञ्चिपदं न दूरे
मुक्तिः करे यदि च सा समुपासितासि ॥१७३॥

मूलम् - १७३

तीर्थाटनैः किम् अधिकं क्षणम् ईक्षिता चेत्
पीतं त्वदम्बु यदि देवि मुधा सुधापि ।
स्नातं यदि त्वयि विरिञ्चिपदं न दूरे
मुक्तिः करे यदि च सा समुपासितासि ॥१७३॥

विरिञ्चेः ।

विश्वास-प्रस्तुतिः - १७४

तीरं तवावतरतीह यथा यथैव
देहेन देवि जरता मुनजो मुमूर्षुः ।
अम्ब स्वयंवरवशंवदनाकनारी
दोर्वल्लिपल्लवि नभो’पि तथा तथैव ॥१७४॥

मूलम् - १७४

तीरं तवावतरतीह यथा यथैव
देहेन देवि जरता मुनजो मुमूर्षुः ।
अम्ब स्वयंवरवशंवदनाकनारी
दोर्वल्लिपल्लवि नभो’पि तथा तथैव ॥१७४॥

तस्यैव ।

विश्वास-प्रस्तुतिः - १७५

तप्तं यन् न तपो हुतं च न हविर् यज् जातवेदो मुखे
दत्तं यच् च न किञ्चिद् एव न कृतो यत् तीर्थयात्रादरः ।
काकेनेव शुनेव केवलम् अयं यत् पूरितः पुद्गलो
मातस् त्वां परिरभ्य जाह्नवि स मे शान्तो’यम् अन्तर्ज्वरः ॥१७५॥

मूलम् - १७५

सेन्तुतस्य ।