विश्वास-प्रस्तुतिः - १६६
सम्भोगस्पृहयालुमन्मथपुनर्जन्मास्पदं भूर् भुवः
स्वः पायात् पुरुषोत्तमक्रतुभिदोर् अर्धार्धपूर्णं वपुः ।
यल्लक्ष्मीगिरिजाकटाक्षकुटिलक्रीडाहठाकृष्टिभिः
स्याद् एव त्रुटितं परस्परगुणस्यूतं न चेद् अन्तरा ॥१६६॥
मूलम् - १६६

त्रिपुरारिपालस्य ।
विश्वास-प्रस्तुतिः - १६७
वपुर् अवतु जटाकिरीटमिश्रं
पुरमुरसूदनयोर् विमिश्रितं वः ।
गिरिजलघिसुतास्वभर्तृकण्ठ
ग्रहचलिताहृतबाहुवल्लरीकम् ॥१६७॥
मूलम् - १६७
वपुर् अवतु जटाकिरीटमिश्रं
पुरमुरसूदनयोर् विमिश्रितं वः ।
गिरिजलघिसुतास्वभर्तृकण्ठ
ग्रहचलिताहृतबाहुवल्लरीकम् ॥१६७॥
तस्यैव ।
विश्वास-प्रस्तुतिः - १६८
स्फटिकमरकतश्रीहारिणोः प्रीतियोगात्
तद् अवतु वपुर् एकं कामकंसद्विषोर् वः ।
न विरमति भवान्याः सार्धम् अब्धेर् दुहित्रा
सदृशमहसि कण्ठे यत्र सीमाविवादः ॥१६८॥
मूलम् - १६८

योगेश्वरस्य । (शा।प। ११०, सू।मु। २।१०३)
विश्वास-प्रस्तुतिः - १६९
देवस्यैकतमालपत्रमुकुटस्यार्धं पुरद्वेषिणो
देहार्धेन समस्यमानम् असमं श्वःश्रेयसायास् तु वः ।
यस्मिन् भूधरकन्यकाब्धिसुतयोर् अप्राप्तसम्भोगयोर्
अन्योन्यप्रतिकर्मनर्मभिदुरो भूयान् अनङ्गज्वरः ॥१६९॥
मूलम् - १६९

हरेः ।
विश्वास-प्रस्तुतिः - १७०
धात्रा सौहृदसीमविस्मितमुखं भेदभ्रमापासनात्
सानन्दं मुनिभिः सनिर्वृति सुरैर् एकत्र सेवासुखात् ।
पार्वत्या स्वपदावकृष्टिकुटिलभ्रूभङ्गम् आलोकितः
पायाद् वो भगवांश् चराचरगुरुर् देहार्धहारी हरः ॥१७०॥
मूलम् - १७०

आर्याविलासस्य ।