विश्वास-प्रस्तुतिः - १६१
यद् बद्धार्धजटं यदर्धमुकुटं यच्चन्द्रमन्दारयोर्
धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः ।
तत् खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोर्
वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नामाङ्कम् एकं वपुः ॥१६१॥
मूलम् - १६१

राजशेखरस्य । (सु।र। १६३९)
विश्वास-प्रस्तुतिः - १६२
नियमितजटावल्लीलीलाप्रसुप्तमहोरगं
चरणकमलप्रान्ते मुक्तस्वविक्रमगोवृषम् ।
विततफणिभुक्पत्रच्छत्रं गदालगुडश्रियं
हरिहरवपुर्ब्रह्मोपास्यं पुनातु जगत् त्रयम् ॥१६२॥
मूलम् - १६२

भवानन्दस्य ।
विश्वास-प्रस्तुतिः - १६३
येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यो गङ्गां च दधे’न्धकक्षयकरो यो बर्हिपत्रप्रियः ।
यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
सो’व्याद् इष्टभुजङ्गहारवलयस् तां सर्वदो माधवः ॥१६३॥
मूलम् - १६३

भारवेः । (स्व् ४४, सू।मु। २।१०४, साह्।द्। १०।१२)
विश्वास-प्रस्तुतिः - १६४
एकावस्थितिर् अस्तु वः पुरमुरप्रद्वेषिणोर् देवयोः
प्रालेयाञ्जनशैलशृङ्गसुभगच्छायाङ्गयोः श्रेयसे ।
तार्क्ष्यत्रासविहस्तपन्नगफटा यस्यां जटापालयो
बालेन्दुद्युतिकोशसुप्तजलजो यस्यां च नाभीह्रदः ॥१६४॥
मूलम् - १६४

तुङ्गोकस्य ।
विश्वास-प्रस्तुतिः - १६५
यज्जम्बूकम्बुरोचिः फणधरपरिषद्भोजिभोगीन्द्रकान्तं
नन्दच्चन्द्रारविन्दद्युतिचरणशिरःस्यन्दिमन्दाकिनीकम् ।
रक्षासंहारदक्षं मदनसमुदयोद्दीपनं शश्वद् अव्याद्
अव्याघातं विबोधे’प्य् उदधिगिरिसुताकान्तयोर् देहम् एकम् ॥१६५॥
मूलम् - १६५

जलचन्द्रस्य ।