०३१ भृङ्गी

विश्वास-प्रस्तुतिः - १५१

दिग्वासा यदि तत् किम् अस्य धनुषा सास्त्रस्य किं भस्मना
भस्माथास्य किम् अङ्गना यदि च सा कामं परिद्वेष्टि किम् ।
इत्य् अन्योन्यविरुद्धचेष्टितम् इदं पश्यन् निजस्वामिनो
भृङ्गी सान्द्रशिरावनद्धपरुषं धत्ते’स्थिशेषं वपुः ॥१५१॥

मूलम् - १५१

योगेश्वरस्य (सु।र। १०३, स्व् २३९९)

विश्वास-प्रस्तुतिः - १५२

कस्मात् त्वं तात गेहाद् अपरम् अभिनवा ब्रूहि का तत्र वार्ता
देव्या देवो जितः किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान् ।
इत्य् एवं बर्हिनाथे कथयति सहसा भर्तृभिक्षा विभूषा
वैगुण्योद्वेगजन्मा जगद् अवतु चिरं हारवो भृङ्गिरीटेः ॥१५२॥

मूलम् - १५२

तुङ्गोकस्य । (सु।र। ९८)

विश्वास-प्रस्तुतिः - १५३

चर्चेयं क्षुधिता सदैव गृहिणी पुत्रो’प्य् अयं षण्मुखो
दुष्पूरोदरभारमन्थरवपुर्लम्बोदरो’पि स्वयम् ।
इत्य् एवं स्वकुटुम्बम् एकवृषभो देवः कथं पोक्षतीत्य्
आलोक्येव विशुष्कपञ्जरतनुर् भृङ्गी चिरं पातु वः ॥१५३॥

मूलम् - १५३

नीलाङ्गस्य ।

विश्वास-प्रस्तुतिः - १५४

भिक्षाभोजिनि कृत्तिवाससि वसुप्राप्तिः कुतः स्याद् इति
प्राग् अर्धं वपुषः स्वयं व्यसनिनो यस्याहरत् पार्वती ।
तस्यार्धं कुपिता हठाद् यदि हरेन् मूर्ध्नि स्थिता जाह्नवी
हा नाथ क्व तदेति दुःस्थहृदयो भृङ्गी भृशं शुष्यति ॥१५४॥

मूलम् - १५४

भवानन्दस्य ।

विश्वास-प्रस्तुतिः - १५५

सेवां नो कुरुते करोति न कृषिं वाणिज्यम् अस्यास्ति नो
पैत्र्यं नास्ति धनं न बान्धवबलं नैवास्ति कश्चिद् गणः ।
द्यूतस्त्रीव्यसनं न मुञ्चति तथापीशस् तद् अस्मात् फलं
किं मे स्याद् इति चिन्तयन्न् इव कृशो भ्ङ्गी चिरं पातु वः ॥१५५॥

मूलम् - १५५

कस्यचित् ।