विश्वास-प्रस्तुतिः - १३१
स जयति गिरिकन्यामिश्रिताश्चर्य्मूर्तिस्
त्रिपुरयुवतिलीलाविभ्रमभ्रंशहेतुः ।
उपचयवति यस्य प्रोन्नतैकस्तनत्वाद्
उपरि भुजगहारः स्थानवैषम्यम् एति ॥१३१॥
मूलम् - १३१
स जयति गिरिकन्यामिश्रिताश्चर्य्मूर्तिस्
त्रिपुरयुवतिलीलाविभ्रमभ्रंशहेतुः ।
उपचयवति यस्य प्रोन्नतैकस्तनत्वाद्
उपरि भुजगहारः स्थानवैषम्यम् एति ॥१३१॥
माघस्य ।
विश्वास-प्रस्तुतिः - १३२
आश्लेषाधरबिम्बचुम्बनसुखालापस्मितान्यासतां
दूरे तावद् इदं मिथो न सुलभं जातं मुखालोकनम् ।
इत्थं व्यर्थकृतैकदेहघटनाविन्यासयोर् आवयोः
केयं प्रीतिविदम्बनेत्य् अवतु वः स्मेरो’र्धनारीश्वरः ॥१३२॥
मूलम् - १३२

कस्यचित् । (स्व् ६८)
विश्वास-प्रस्तुतिः - १३३
चन्द्रालोकय पश्य पन्नगपते वीक्षध्वम् एतद्गणाः
कामारेः स्तनभारमन्थरम् उरो लाक्षारुणाङ्घ्रिश्रियः ।
आकर्ण्य त्रिदशापगागिरम् इमां सोल्लासम् आभाषितां
व्रीडास्मेरनताननो विजयते कान्तार्धनारीश्वरः ॥१३३॥
मूलम् - १३३

योगेश्वरस्य ।
विश्वास-प्रस्तुतिः - १३४
स्वच्छन्दैकस्तनश्रीरुभयगतमिलन्मौलिचन्द्रः फणीन्द्र
प्राचीनावीतवाही सुखयतु भगवान् अर्धनारीश्वरो वः ।
यस्यार्धे विश्वदाहव्यसनविसृमरज्योतिर् अर्धं कृपोद्यद्
बाष्पं चान्योन्यवेगप्रहतिसिमसिमाकारि चक्ष्ण्ड्स्मृतीयम् ॥१३४॥
मूलम् - १३४

मुरारेः । (अर् ७।३८, सू।मु। २।२१)
विश्वास-प्रस्तुतिः - १३५
धम्मिल्लं च जटां च मौक्तिकसरं चाहिं च रत्नानि च
ब्रह्मास्थीनि च कुङ्कुमं च नृशिरश् चूर्णोत्तरं भस्म च ।
क्षौमं च द्विपचर्म चैकवपुषा बिभ्रद्दिशन्न् एकतां
भावानाम् इव योगिनां दिशतु वः श्रेयो’र्धनारीश्वरः ॥१३५॥
मूलम् - १३५

शङ्करदेवस्य ।