०२५ दुर्गा

विश्वास-प्रस्तुतिः - १२१

एकं महिषशिरःस्थितम्
अपरं सानन्दसुरगणप्रणतम् ।
गिरिदुहितुः पदयुगलं
शोणितमणिरागरञ्जितं जयति ॥१२१॥

मूलम् - १२१

एकं महिषशिरःस्थितम्
अपरं सानन्दसुरगणप्रणतम् ।
गिरिदुहितुः पदयुगलं
शोणितमणिरागरञ्जितं जयति ॥१२१॥

जलचन्द्रस्य ।

विश्वास-प्रस्तुतिः - १२२

त्रिभुवनशुभपञ्जिकाञ्जिकेव
स्फुरति भवानि तवाङ्कुशः कराग्रे ।
डमरुर् अपि बिभर्ति देवि तत् तद्
विपदवसानविसर्जनीयलक्ष्मीम् ॥१२२॥

मूलम् - १२२

त्रिभुवनशुभपञ्जिकाञ्जिकेव
स्फुरति भवानि तवाङ्कुशः कराग्रे ।
डमरुर् अपि बिभर्ति देवि तत् तद्
विपदवसानविसर्जनीयलक्ष्मीम् ॥१२२॥

हरेः ।

विश्वास-प्रस्तुतिः - १२३

ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ
प्रेङ्खन्नखांशुचयसंवलितो’म्बिकायाः ।
त्वां पातु मञ्जरितपल्लवकर्णपूर
लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१२३॥

मूलम् - १२३

ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ
प्रेङ्खन्नखांशुचयसंवलितो’म्बिकायाः ।
त्वां पातु मञ्जरितपल्लवकर्णपूर
लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१२३॥

अमरोः । (अमरु १; सु।र। १००)

विश्वास-प्रस्तुतिः - १२४

पादावष्टम्भनम्रीकृतमहिषतनोर् उल्लसद्बाहुमूलं
शूलं प्रोल्लासयन्त्याः सरलितवपुषो मध्यभागस्य देव्याः ।
विश्लिष्टस्पष्टदृष्टोन्नतविरलबहुव्यक्तगौरान्तरालास्
तिस्रो वः पान्तु रेखाः क्रमवशविकसत्कञ्चुकप्रान्तमुक्ताः ॥१२४॥

मूलम् - १२४

बाणस्य ।

विश्वास-प्रस्तुतिः - १२५

विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे
जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे ।
वैकुण्ठे कुण्ठितास् ते महिषम् अतिरुषं पौरुषोपघ्निविघ्नं
निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥१२५॥

मूलम् - १२५

तस्यैव ।