विश्वास-प्रस्तुतिः - ९६
भ्राम्यद्विश्वम्भराणि भ्रमिचलननमत्कूर्मकुम्भीनसानि
त्रुष्ट्यत्ताराणि रिङ्गद्धरिणधरशिरःश्रेणीशीर्यद्दृषन्ति ।
दिक्कीरेओदञ्चद् अम्पि द्रवदमरचमूचक्रचञ्चद्वियन्ति
व्यस्यन्तु व्यापदं वस् त्रिपुरविजयिनस् ताण्डवारम्भणानि ॥९६॥
मूलम् - ९६

राजशेखरस्य ।
विश्वास-प्रस्तुतिः - ९७
हेलापाद्रप्रतापान् नमदवनिभराक्रान्तकूर्मेशशेष
प्रोद्भूतश्वासवातोच्छलदुदधिपयोधौतसूर्येन्दुतारम् ।
भ्राम्यद्दोःसङ्घवेगापतदचलकुलध्वानसन्त्रस्तविश्वं
त्रैलोक्यैश्वर्यकारि द्यतु तव दुरितं ताण्डवं चन्द्रमौलेः ॥९७॥
मूलम् - ९७

वाच्छोकस्य ।
विश्वास-प्रस्तुतिः - ९८
उत्तानाः कति वेल्लिताः कति रयाद् आभुग्नमध्याः कति
क्षिप्तोत्क्षिप्तविकुञ्चिताः कति भुजास् तौर्यत्रिकानुक्रमात् ।
कल्पान्तेषु महानटस्य झटिति प्रक्रान्तचक्रभ्रमि
भ्रान्तौ केवलम् अग्निहासगरलैर् लेखात्रयं पातु वः ॥९८॥
मूलम् - ९८

सागरधरस्य ।
विश्वास-प्रस्तुतिः - ९९
पायाद् वः सुरदीर्घिकाजलरयभ्राम्यज्जटामण्डली
वेगव्याकुलनागनायकफणाफूत्कारवातोच्छलम् ।
सप्ताम्भोनिधिजन्मचण्डलहरीमज्जन्नभोमण्डल
ग्रासत्रस्तसुराङ्गनाकलकलक्रीडाविलक्षो हरः ॥९९॥
मूलम् - ९९

ब्रह्महरेः । (सु।र। ६८, कर्कराजस्य)
विश्वास-प्रस्तुतिः - १००
सन्ध्याताण्डवडम्बरव्यसनिनो भीमस्य चण्डभ्रमि
व्यानृत्यद्भुजदण्डमण्डलभुवो झञ्झानिलाः पान्तु वः ।
येषाम् उच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम्
उड्डीनेषु विडौजसा पुनर् असौ दम्भोलिर् आलोकितः ॥१००॥
मूलम् - १००

कस्यचित् । (सु।र। ५०, सू।मु। २।३१)