०१८ भैरवः

विश्वास-प्रस्तुतिः - ८६

खट्वाङ्गीकृतधूमकेतुधटितप्रेताधिराट्पञ्जर
प्रोतब्रह्मशिरः कपालवलयं बिभ्रज्जटामण्डलम् ।
कण्ठे सप्तमहर्षिवक्त्ररचिताम् एकावलीम् उद्वहन्
पायाद् वः सुलभव्रतोपकरणः कल्पान्तकापालिकः ॥८६॥

मूलम् - ८६

कस्यचित् ।

विश्वास-प्रस्तुतिः - ८७

सद्यः प्रध्वस्तदेवासुरसरसशिरःश्रेणिशोणारविन्द
स्रग्दामानद्धमूर्तेर् घनरुधिरकणक्लिन्नचर्मांशुकस्य ।
निष्पर्यायत्रिलोकीभवकवलरसव्यात्तवक्त्रस्य जीयाद्
आनन्दः कालरात्रीकुचकलसपरीरम्भिणो भैरवस्य ॥८७॥

मूलम् - ८७

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - ८८

वैकुण्ठस्य करङ्कम् अङ्कनिहितं स्रष्टुः कपालं करे
प्रत्यङ्गं च विभूषणं विरचितं नाकौकसां कीकसैः ।
भस्म स्थावरजङ्गमस्य जगतः शुभ्रं तनौ बिभ्रतः
कल्पान्तेषु कपालिनो विजयते रौद्रं कपालव्रतम् ॥८८॥

मूलम् - ८८

भवभूतेः ।

विश्वास-प्रस्तुतिः - ८९

एकाम्भोधीकृतायां भुवि जगद् अखिलं निर्जनीकृत्य खेलन्
देवः कालीसहायः प्रसभविहरणोन्मुक्तलीलाट्टहासः ।
सद्यो दंष्ट्रांशुभिन्ने तमसि निजवपुर्बिम्बम् आलोक्य कस् त्वं
कस् त्वं ब्रूहीति कोपाद् अभिदधद् अभयं भैरवश् चेष्टतां वः ॥८९॥

मूलम् - ८९

वैद्यगदाधरस्य ।

विश्वास-प्रस्तुतिः - ९०

कल्पान्ते शयितत्रिविक्रममहाकङ्कालदन्ती स्फुरच्
छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलामिषः ।
विश्वैकार्णवतानितान्तम् उदितौ तौ मत्स्यकूर्माव् उभौ
कर्षन् धीवरतां गतो’स्य तु महामोहं महाभैरवः ॥९०॥

मूलम् - ९०

चित्तपस्य । (सू।मु। २।२४)