०१६ हरबाणः

विश्वास-प्रस्तुतिः - ७६

क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो’प्य् आददानो’ंशुकान्तं
गृह्णन् केशेष्व् अपास्तश् चरणनिपतितो नेक्षितः सम्भ्रमेण ।
आलिङ्गन् यो’वधूतस् त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥७६॥

मूलम् - ७६

अमरोः । (अमरु २; सु।र। ४९)

विश्वास-प्रस्तुतिः - ७७

सिन्दूरश्रीर् ललाटे कनकरसमयः कर्णपाशावतंसो
वक्त्रे ताम्बूलरागः पृथुकुचकलसे कुङ्कुमस्यानुलेपः ।
दैत्याधीशाङ्गनानां जघनपरिसरे लाक्षिकक्षौमलक्ष्मी
रश्रेयांसि क्षिणोतु त्रिपुरहरशरोद्गारजन्मानलो वः ॥७७॥

मूलम् - ७७

मङ्गलस्य । (सु।र। ६७)

विश्वास-प्रस्तुतिः - ७८

विष्वग् व्याधूय धूमप्रचययवनिकां स्फायमानस्फुलिङ्ग
व्याजाद् अवकीर्य पुष्पाञ्जलिम् उपरि पदं न्यस्यतो मन्दिराणाम् ।
स्वच्छन्दाभोगसीमा महति मयपुरे दत्तरौद्राङ्गराग
व्याप्ताशेषस्य विश्वेश्वरशरशिखिनस् ताण्डवं नः पुनातु ॥७८॥

मूलम् - ७८

वैद्यगदाधरस्य ।

विश्वास-प्रस्तुतिः - ७९

बाष्पैर् वीताङ्गरागच्छविषु विरचयन्न् अच्छधूमच्छटाभिः
कस्तूरीपत्रमायां मयनगरवधूवर्गवक्षोरुहेषु ।
आसाम्लानपुष्पस्तवकनवकलाम् अंशुभिः कुन्तलेषु
व्याकुर्वन्न् अन्धकारं हरतु हरशरोद्गारजन्मानलो वः ॥७९॥

मूलम् - ७९

जलचन्द्रस्य ।

विश्वास-प्रस्तुतिः - ८०

चापं मुष्टिर् भवान्याः सरसिजमुकुलश्रीः कथं वा विधत्ते
प्रत्यालीढं कथं वा रचयतु मणिमन् नूपुरो वामपादः ।
इत्थं यावद् वितर्कं विदधति विबुधास् तावद् अग्रे य आसीद्
वाणाग्निः प्लुष्टदैत्यो मयपुरमथने धूर्जटेः सो’वताद् नः ॥८०॥

मूलम् - ८०