विश्वास-प्रस्तुतिः - ७१
संरब्धाङ्घ्रिनिवेशनाद् अनिभृतं सर्वंसहाविग्रहे
वीतालम्बनम् आरसातलम् अधोविस्त्रंसिनि स्यन्दने ।
याते दृक्पथदूरतां मयपुरे देवस्य भूतप्रभोर्
द्राग्विश्वम्भरबाणमोक्षविषयो यत्नः शिवायास्तु वः ॥७१॥
मूलम् - ७१

वैद्यगदाधरस्य ।
विश्वास-प्रस्तुतिः - ७२
चापोत्क्षेपापसर्पद्वलयफणिगुणोत्तंसितापाङ्गभित्ति
प्रत्यालीढानुबन्धोच्छलितजलनिधिव्याप्तवेलोपकण्ठम् ।
उन्मीलद्भालवह्नि क्रमशिथिलजटालम्बिगङ्गेन्दुलेखं
भूयाद् वश् चन्द्रमौलेर् मयनगरभिदः सौष्ठवं मङ्गलाय ॥७२॥
मूलम् - ७२

जलचन्द्रस्य ।
विश्वास-प्रस्तुतिः - ७३
सङ्व्यानांशुकपल्लवेषु तरलं वेणीगुणेषु स्थितं
मन्दं कञ्चुकसन्धिषु स्तनतटोत्सङ्गेषु दीप्तार्चिषम् ।
आलोक्य त्रिपुरावरोधनवधूवर्गस्य धूमध्वजं
हस्तस्रस्तशरासनो विजयते देवो दयार्द्रेक्षणः ॥७३॥
मूलम् - ७३

मयूरस्य । (सु।र। ६१)
विश्वास-प्रस्तुतिः - ७४
वाणीभूतपुराणपूरुषधृतिप्रत्याशया धाविते
निद्रातीक्षणजाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे ।
नम्रोन्नम्रभुजङ्गपुङ्गवगुणव्याकृष्टबाणासन
क्षिप्तास्त्रस्य पुरद्रुहो विजयते सन्धानसीमाश्रमः ॥७४॥
मूलम् - ७४

मुरारेः । (अर् ७।११४, सु।र। ३१)
विश्वास-प्रस्तुतिः - ७५
दृष्टः सप्रेम देव्या किम् इदम् इति भयात् सम्भ्रमाच् चासुरीभिः
शान्तान्तस्तत्त्वसारैः सकरुणम् ऋषिभिर् विष्णुना सस्मितेन ।
आकृष्यास्त्रं सगर्वैर् उपशमितबन्धुसम्भ्रमैर् दैत्यवीरैः
सानन्दं देवताभिर् मयपुरदहने धूर्जटिः पातु युष्मान् ॥७५॥
मूलम् - ७५

भट्टनारायणस्य । (व्स् १।३)