विश्वास-प्रस्तुतिः - ६१
शान्त्यै वो’स्तु कपालदाम जगतां पतुर् यदीयां लिपिं
क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षरम् ।
विश्वं स्रक्ष्यति वक्ष्यति क्षितिम् अपाम् ईशिष्यते शिष्यते
नागान् रागिषु रंस्यते स्यति जगन् निर्वेक्ष्यति द्याम् इति ॥६१॥
मूलम् - ६१

कस्यचित् । (सु।र। ५४)
विश्वास-प्रस्तुतिः - ६२
गाढग्रन्थिप्रफुल्लद्गलविकलफणापीठनिर्यद्विषाग्नि
ज्वालानिष्टप्तचन्द्रद्रवदमृतरसप्रोषितप्रेतभावाः ।
उज्जृम्भा बभ्रुनेत्रद्युइत्म् असकृदसृक्तृष्णयालोकयन्त्यः
पान्तु त्वां नागनालग्रथितशवशिरःश्रेणयो भैरवस्य ॥६२॥
मूलम् - ६२

भवभूतेः । (सु।र। ३९)
विश्वास-प्रस्तुतिः - ६३
जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दु
स्रवदमृतनिवृत्तप्रेतभावैः कपालैः ।
विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरारेः
परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः ॥६३॥
मूलम् - ६३
जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दु
स्रवदमृतनिवृत्तप्रेतभावैः कपालैः ।
विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरारेः
परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः ॥६३॥
कस्यचित् । (स।क।आ। १।८४)
विश्वास-प्रस्तुतिः - ६४
लिप्ता लालाटनेत्रस्फुरदुरुदहनज्वालजालप्रतापोत्
ताम्यत्कोटीर् अभारस्थिरशशिशकलप्रस्रुताभिः सुधाभिः ।
अन्तर्नृत्यप्रमोदप्रचलितशिरश् चन्द्रमौलेः कपालाः
कल्याणं वः क्रियासुः स्तुतिम् अभिधतस् ताण्डवाडम्बरेषु ॥६४॥
मूलम् - ६४

नरसिंहस्य ।
विश्वास-प्रस्तुतिः - ६५
पायाद् वः स शिरांसि ताण्डव-विधौ यन्-मूर्ध्नि खिन्नोरग-
श्वासाग्नि-द्रुत-चूड-चन्द्र-सुधया प्राणन्त्य् अकस्माद् विधेः ।
ऋक्-सामे कतिचित् पठन्ति, कतिचिन् मज्जन्ति गङ्गा-जले,
स्वात्मानं कतिचिन् मनन्ति, कतिचिन् नेत्रानले जुह्वति ॥६५॥+++(5)+++
English - शङ्करः
During Shiva’s robust TanDava dance, the hot breaths of the tired serpents adorning his head melt the moon nearby; the melting moon drips amRta; the dripping amRta brings to life the heads of various Brahmas of various kalpas) which are his crest ornaments. Some of these heads start chanting Vedic mantras, some take a dip in the waters of Ganga, some start to meditate, and yet others make offerings in the fire of the third eye.
मूलम् - ६५
पायाद् वः स शिरांसि ताण्डवविधौ यन् मूर्ध्नि खिन्नोरग
श्वासाग्निद्रुतचूडचन्द्रसुधया प्राणन्त्य् अकस्माद् विधेः ।
ऋक्सामे कतिचित् पठन्ति कतिचिन् मज्जन्ति गङ्गाजले
स्वात्मानं कतिचिन् मनन्ति कतिचिन् नेत्रानले जुह्वति ॥६५॥
वामदेवस्य ।