०१२ हरजटा

विश्वास-प्रस्तुतिः - ५६

ज्वालेवोर्ध्वविसर्पिणी परिणतस्यान्तस् तपस् तेजसो
गङ्गातोयतरङ्गसर्पवसतिर् वल्मीकलक्ष्मीर् इव ।
सन्द्येवार्द्रमृणालकोमलतनोर् इन्दोः सहस्थायिनी
पायाद् वस् तरुणांशुकपिला शम्भोर् जटासंहतिः ॥५६॥

मूलम् - ५६

ज्वालेवोर्ध्वविसर्पिणी परिणतस्यान्तस् तपस् तेजसो
गङ्गातोयतरङ्गसर्पवसतिर् वल्मीकलक्ष्मीर् इव ।
सन्द्येवार्द्रमृणालकोमलतनोर् इन्दोः सहस्थायिनी
पायाद् वस् तरुणांशुकपिला शम्भोर् जटासंहतिः ॥५६॥

रविनागस्य । (सु।र। ५५)

विश्वास-प्रस्तुतिः - ५७

चूडापीडनिबद्धवासुकिफणाफूत्कारनिर्यद्विष
ज्वालाजृम्भितमत्स्यकच्चपवधूलीढेन्दुलेखामृतम् ।
अव्याद् वः स्मरसूदनस्य मदनक्रीडाकचाकर्षणश्
च्योतन्नाकसरित्सरोषगिरिजादृष्टं जटामण्डलम् ॥५७॥

मूलम् - ५७

चूडापीडनिबद्धवासुकिफणाफूत्कारनिर्यद्विष
ज्वालाजृम्भितमत्स्यकच्चपवधूलीढेन्दुलेखामृतम् ।
अव्याद् वः स्मरसूदनस्य मदनक्रीडाकचाकर्षणश्
च्योतन्नाकसरित्सरोषगिरिजादृष्टं जटामण्डलम् ॥५७॥

भवभूतेः ।

विश्वास-प्रस्तुतिः - ५८

क्वचिद् अमरसरित् क्वचित् कपालं
क्वचिद् उरगाः क्वचिद् ऐन्दवी च लेखा ।
इति विषमविभूषणैर् उपेता
प्रमथपतेर् अवताज् जटाटवी ॥५८॥

मूलम् - ५८

क्वचिद् अमरसरित् क्वचित् कपालं
क्वचिद् उरगाः क्वचिद् ऐन्दवी च लेखा ।
इति विषमविभूषणैर् उपेता
प्रमथपतेर् अवताज् जटाटवी ॥५८॥

दण्डिनः ।

विश्वास-प्रस्तुतिः - ५९

उत्पत्रेव दृशोर्चिषा कुसुमितेवेन्दोः करैर् भोगिभिः
सारोहेव जटाटवी फलतु वः श्रेयो भवानीपतेः ।
यत्पर्यन्तविवर्तिनः सुरसरित्पूरस्य भूरिस्फुरत्
फेनेण्डूकविलासम् अञ्चति विधेर् जीर्णा कपालावली ॥५९॥

मूलम् - ५९

उत्पत्रेव दृशोर्चिषा कुसुमितेवेन्दोः करैर् भोगिभिः
सारोहेव जटाटवी फलतु वः श्रेयो भवानीपतेः ।
यत्पर्यन्तविवर्तिनः सुरसरित्पूरस्य भूरिस्फुरत्
फेनेण्डूकविलासम् अञ्चति विधेर् जीर्णा कपालावली ॥५९॥

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - ६०

मूलावनद्धभुजगेन्द्रकृतालवाल
बन्धाः स्खलत्त्रिदशसिन्धुजलौघसिक्ताः ।
उन्मुक्तचन्द्रकुसुमा जगतां हिताय
शम्भोर् जटाः कनककल्पलताः फलन्तु ॥६०॥

मूलम् - ६०

मूलावनद्धभुजगेन्द्रकृतालवाल
बन्धाः स्खलत्त्रिदशसिन्धुजलौघसिक्ताः ।
उन्मुक्तचन्द्रकुसुमा जगतां हिताय
शम्भोर् जटाः कनककल्पलताः फलन्तु ॥६०॥

दङ्कस्य ।