विश्वास-प्रस्तुतिः - ४१
त्वङ्गद्गङ्गम् उदञ्चदिन्दुशकलं भ्रश्यत्कपालावलि
क्रोडभ्राम्यदमन्दमारुतचयस्फारीभवद्भाङ्कृति ।
पायाद् वो घनताण्डवव्यतिकरप्राग्भारखेदस्खल
द्भोगीन्द्रश्लथपिङ्गलोत्कटजटाजूटं शिरो धूर्जटेः ॥४१॥
मूलम् - ४१

वीर्यमित्रस्य । (सु।र। ४२)
विश्वास-प्रस्तुतिः - ४२
सन्ध्याताण्डवितस्य खण्डपरशोर् अव्याज् जगन्ति ज्वलल्
लालाटाक्षिपुटोद्भवानलशिखालीढेन्दुलेखं शिरः ।
भ्रश्यत्कृत्ति चलन्महाहिविगलद्व्योमापगाम्बुस्खलत्
खण्डेन्दूच्छलभूतिचटुलभ्राम्यज्जटासन्तति ॥४२॥
मूलम् - ४२

योगेश्वरस्य ।
विश्वास-प्रस्तुतिः - ४३
धूमोद्भेदानभिज्ञस्फुरदन,अम् अनाघ्रातपङ्काधिकार
प्रेङ्खत्कल्लोलवारिव्यतिकरम् अनघस्पर्शजाग्रत्कपालम् ।
अज्ञातास्तत्रियामादयितम् अविदितप्राणिहिंसोरगस्रग्
भूतेशस्य प्रभूताद्भुतम् अवतु शिरः श्रेयसां सन्ततिं वः ॥४३॥
मूलम् - ४३

वैद्यगदाधरस्य ।
विश्वास-प्रस्तुतिः - ४४
नाट्यावेगविनिःसृतत्रिपथगावारिप्रवाहाकुलः
शीघ्रभ्रान्तिवशाल् ललाटनयनज्वालातडिद्भीषणः ।
मुण्डालीकुहरप्रसर्पदनिलास्फालप्रयुक्तध्वनिः
प्रावृट्काल इवोदितः शिवशिरोमेघः शिवायास् तु वः ॥४४॥
मूलम् - ४४

कस्यचित् ।
विश्वास-प्रस्तुतिः - ४५
अन्तःस्वीकृतजाह्नवीजलम् अतिस्वच्छन्दरत्नाङ्कुर
श्रेणीशोणभुजङ्गनायकफणाचक्रील् लसत्पल्लवम् ।
भूयाद् अभुयदाय मोक्षनगरप्रस्थानभाजम् इतः
प्रत्यूहप्रशमैकपूर्णकलशप्रायं शिरो धूर्जटेः ॥४५॥
मूलम् - ४५

जलचन्द्रस्य ।