००८ हरहास्यम्

विश्वास-प्रस्तुतिः - ३६

पाणौ कङ्कणम् उत्फणः फणिपतिर् नेत्रं ज्वलत्पावकं
कण्ठः कुण्ठितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् ।
गौरीलोचनलोभनाय सुभगो वेषो वरस्येति मे
गण्डोल्लासविभावितः पशुपतेर् हासोद्गमः पातु वः ॥३६॥

मूलम् - ३६

रुद्रटस्य । (शृ।ति। ३।२अ)

विश्वास-प्रस्तुतिः - ३७

उद्दामदन्तरुचिपल्लवितार्धचन्द्र
ज्योत्स्नानिपीततिमिरप्रकरावरोधः ।
श्रेयांसि वो दिशतु ताण्डवितस्य शम्भोर्
अम्भोधरावलिघनध्वनिर् अट्टहासः ॥३७॥

मूलम् - ३७

उद्दामदन्तरुचिपल्लवितार्धचन्द्र
ज्योत्स्नानिपीततिमिरप्रकरावरोधः ।
श्रेयांसि वो दिशतु ताण्डवितस्य शम्भोर्
अम्भोधरावलिघनध्वनिर् अट्टहासः ॥३७॥

सङ्घमित्रस्य । (सु।र। ४१)

विश्वास-प्रस्तुतिः - ३८

मातर् ब्रूहि किम् एतद् अञ्जलिपुटे तातेन गोपायितं
वत्स स्वादुफलं प्रयच्छति न मे गत्वा गृहाण स्वयम् ।
मात्रैवं प्रहिते गुहे विघटयत्य् आकृष्य सन्ध्याञ्जलिं
शम्भोर् भग्नसमाधिरुद्धमनसो हास्योद्गमः पातु वः ॥३८॥

मूलम् - ३८

योगेश्वरस्य । (सु।र। ५९)

विश्वास-प्रस्तुतिः - ३९

निर्विघ्नं घनसारसारविशदस्वर्लोककल्लोलिनी
कल्लोलप्रतिमल्लबाहुचलनैर् व्याप्तान्तरालश्रियः ।
शम्भोः सम्भवदङ्गहारतरलोत्तंसामृतांशुद्रव
प्राणात् प्राणिकपालचापलदृशो हासोर्मयः पान्तु वः ॥३९॥

मूलम् - ३९

वाचस्पतेः ॥

विश्वास-प्रस्तुतिः - ४०

भृङ्गी कस् तव चर्चिके गुह न को’प्य् आकार एकस् तु नौ
सत्यं भृङ्गरिटे सुसत्यम् अनृतं लोकं तु मोटिर् वदेत् ।
नग्नं पृच्छतम् अस्तु वां परिणयैकात्मत्वम् इत्य् उद्भट
स्ताव् उत्सृज्य सपर्षदः पशुपतेर् हास्योद्गमः पातु वः ॥४०॥

मूलम् - ४०