विश्वास-प्रस्तुतिः - २६
एवं स्थापय सुभ्रु बाहुलतिकाम् एवं कुरु स्थानकं
नात्युच्चैर् नम कुञ्चिताग्रचरणं मां पश्य तावत् क्षणम् ।
गौरीं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना
शम्भोर् वः सुखयन्तु लम्भितलयच्छेदाहतास् तालिकाः ॥२६॥
मूलम् - २६

योगेश्वरस्य । (सु।र। ६०)
विश्वास-प्रस्तुतिः - २७
तस्या नाम मया कथं कथम् अपि भ्रान्त्या समुच्चारितं
जानास्य् एव ममाशयं तव कृते गौरि प्रसन्ना भव ।
क्षान्तिः स्वीक्रियतां दयावति मयि क्रोधः परित्यज्यता
मित्येवं बहु जल्पतः स्मररिपोः प्रेमाञ्जलिः पातु वः ॥२७॥
मूलम् - २७

चक्रपाणेः ।
विश्वास-प्रस्तुतिः - २८
बालः सुन्दरि चन्द्रमाः स्रुतसुधाधाराभिराप्यायितो
निद्राम् एति फणीश्वरः सुरधुनी रुद्धा जटावल्लिभिः ।
इत्थं मन्मथकेलिकौतुकविधौ व्रीडावतीं पार्वतीं
पायाद् वः प्रतिबोधयन् नववधूं चन्द्रार्धचूडामणिः ॥२८॥
मूलम् - २८

कक्कोलस्य ।
विश्वास-प्रस्तुतिः - २९
श्रुतिः सक्ता मुग्धे वचसि वदनेन्दौ निपतिता
दृशः स्वादौ बिम्बाधरमधुनि मग्नैव रसना ।
निषण्णाभून् नासा निजपरिमले शैलदुहितु
र्घनाश्लेषानन्दे वपुर् अपि विलीनं पुरभिदः ॥२९॥
मूलम् - २९

उमापतिधरस्य ।
विश्वास-प्रस्तुतिः - ३०
दूरे दारुवनाभिसारक मृषा चाटूनि मुञ्चाधुना
भूयस् त्वं पुनर् अप्य् अहं यदि तदा चन्द्रः क्षितिं यास्यति ।
इत्य् उक्तः शशिमौलिर् अद्रिसुतया चूडेन्दुभूलम्भन
व्याजव्यञ्जितपादपद्मपतनप्रीतप्रियः पातु वः ॥३०॥
मूलम् - ३०

कविपण्डितश्रीहर्षस्य । (सू।मु। २।८)