विश्वास-प्रस्तुतिः - २१
वेदान्तेषु यम् आहुर् एकपुरुषं व्याप्य स्थितं रोदसी
यस्मिन्न् ईश्वर इत्य् अनन्यविषयः शब्दो यथार्थाक्षरः ।
अन्तर्यश् च मुमुक्षुभिर् नियमितप्राणादिभिर् मृग्यते
स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥२१॥
मूलम् - २१

कालिदासस्य । (विक्। १।१)
विश्वास-प्रस्तुतिः - २२
कण्ठच्छायमिषेण कल्परजनीम् उत्तंसमन्दाकिनी
रूपेण प्रलयाब्धिम् ऊर्ध्वनयनव्याजेन कल्पाजलम् ।
भूषापन्नगकेलिपानकपटाद् एकोनपञ्चाशतं
वातान् अप्य् उपसंहरन्न् अवतु वः कल्पान्तशान्तौ शिवः ॥२२॥
मूलम् - २२

चित्तपस्य ।
विश्वास-प्रस्तुतिः - २३
क्वाप्य् अग्निः क्वचिद् अद्रिभूर् नरशिरःकीर्णा क्वचिन् निम्नगा
रूक्षा क्वापि जटा क्वचिद् विषधरा रौद्रं विषं कुत्रचित् ।
तादृग् भूतगणैर् वृतो मम चिताभस्मोर्मिकिर्मीरितः
संसारं प्रतिमुच्य यातुर् अपुनर्योगाय पन्थाः शिवः ॥२३॥
मूलम् - २३

बिल्हणस्य ।
विश्वास-प्रस्तुतिः - २४
निर्माता जगदर्थम् एव वचसां वाचं यमो यः स्वयं
भोगान् विश्वकृते तनोति विषयव्यावर्तितात्मेन्द्रियः ।
धत्ते’स्त्राणि जगन्ति रक्षितुम् उदासीनः स्वदेहग्रहे
योगीन्द्रो’स्तु सदाशिवः स भवतां भूत्यै परार्थव्रती ॥२४॥
मूलम् - २४

वैद्यगदाधरस्य ।
विश्वास-प्रस्तुतिः - २५
दूरोन्मुक्तखगेश्वरे मुरभिदि व्याक्षिप्तबाहौ ग्रह
व्यूहे वारितमातरिश्वनि नमत्य् आशापतीनां गणे ।
निष्कम्पोरगहारवल्लिर् अचलच्चूडेन्दुर् अव्याकुल
स्वःसिन्धुः स्थिरयोगनिर्वृतमनाः पायात् त्रिलोकीं शिवः ॥२५॥
मूलम् - २५

तस्यैव ।