विश्वास-प्रस्तुतिः - ११
मौलौ वेगाद् उदञ्चत्य् अपि चरणभरन्यञ्चदुर्वीतलत्वाद्
अक्षुण्णस्वर्गलोकस्थितिमुदितसुरश्रेष्ठगोष्ठीस्तुताय ।
सन्त्रासान् निःसरनत्य् अविरतविषजद्दक्षिणार्धाङ्ग
बन्धाद् अत्यक्तायाद्रिपुत्र्या तिर्पुरहरजगत्क्लेशहन्त्रे नमस् ते ॥११॥
मूलम् - ११

बाणस्य । (सु।र। ५६)
विश्वास-प्रस्तुतिः - १२
नमस् तुङ्गशिरश् चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥१२॥
मूलम् - १२
नमस् तुङ्गशिरश् चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥१२॥
(सु।र। ४८)
विश्वास-प्रस्तुतिः - १३
तादृक्सप्तसमुद्रमुद्रितमहीभूभृद्भिर् अभ्रङ्कषैस्
तावद्भिः परिवारिता पृथुद्वीपैः समन्ताद् इयम् ।
यस्य स्फारफणामणौ निलयनात् तिर्यक्कलङ्काकृतिः
शेषः सो’प्य् अगमद् यदङ्गदपदं तस्मै नमः शम्भवे ॥१३॥
मूलम् - १३
तादृक्सप्तसमुद्रमुद्रितमहीभूभृद्भिर् अभ्रङ्कषैस्
तावद्भिः परिवारिता पृथुद्वीपैः समन्ताद् इयम् ।
यस्य स्फारफणामणौ निलयनात् तिर्यक्कलङ्काकृतिः
शेषः सो’प्य् अगमद् यदङ्गदपदं तस्मै नमः शम्भवे ॥१३॥
बल्लणस्य । (सु।र। ३८)
विश्वास-प्रस्तुतिः - १४
नमस् तस्मै कस्मैचन वचनवित्तेन्द्रिययमी
यम् ईशानं ज्योतिर्मयम् अयम् उपास्ते मुनिजनः ।
गुरूपज्ञप्रज्ञामुकुरनिकुरम्बप्रतिफलन्
निजानन्दज्योत्स्नाभ्युदयभिदुराज्ञानतिमिरः ॥१४॥
मूलम् - १४
नमस् तस्मै कस्मैचन वचनवित्तेन्द्रिययमी
यम् ईशानं ज्योतिर्मयम् अयम् उपास्ते मुनिजनः ।
गुरूपज्ञप्रज्ञामुकुरनिकुरम्बप्रतिफलन्
निजानन्दज्योत्स्नाभ्युदयभिदुराज्ञानतिमिरः ॥१४॥
हरेः ।
विश्वास-प्रस्तुतिः - १५
वृषधन धनदप्रिय प्रियार्ध
ग्रथनविदग्ध विदग्धचित्तयोने ।
पुरहर हरिणाङ्कचूड चूडा
भुजगभयङ्कर धूर्जटे नमस् ते ॥१५॥
मूलम् - १५
वृषधन धनदप्रिय प्रियार्ध
ग्रथनविदग्ध विदग्धचित्तयोने ।
पुरहर हरिणाङ्कचूड चूडा
भुजगभयङ्कर धूर्जटे नमस् ते ॥१५॥
भोजदेवस्य ।