विश्वास-प्रस्तुतिः - ६
तुङ्गोदयाद्रिभुजगेन्द्रफणोपलाय
व्योमेन्द्रनीलतरुकाञ्चनपल्लवाय ।
संसारसागरसमुत्क्रमियोगिसार्थ
प्रस्थानपूर्णकलसाय नमः सवित्रे ॥६॥
मूलम् - ६
तुङ्गोदयाद्रिभुजगेन्द्रफणोपलाय
व्योमेन्द्रनीलतरुकाञ्चनपल्लवाय ।
संसारसागरसमुत्क्रमियोगिसार्थ
प्रस्थानपूर्णकलसाय नमः सवित्रे ॥६॥
वराहमिहिरस्य । (सु।र। १५०)
विश्वास-प्रस्तुतिः - ७
विष्वग्विसारितिमिरप्रकरावरुद्ध
त्रैलोक्यनेत्रपुटसिद्धरसायनाय ।
तुभ्यं नमः कमलषण्डविषादनिद्रा
विद्रावणोद्यतकराय दिवाकराय ॥७॥
मूलम् - ७
विष्वग्विसारितिमिरप्रकरावरुद्ध
त्रैलोक्यनेत्रपुटसिद्धरसायनाय ।
तुभ्यं नमः कमलषण्डविषादनिद्रा
विद्रावणोद्यतकराय दिवाकराय ॥७॥
श्रीकण्ठस्य ।
विश्वास-प्रस्तुतिः - ८
शुकतुण्डच्छवि सवितुश् चण्डरुचः पुण्डरीकवनबन्धोः ।
मण्डलम् उदितं वन्दे कुण्डलम् आखण्डलाशायाः ॥८॥
मूलम् - ८
शुकतुण्डच्छवि सवितुश् चण्डरुचः पुण्डरीकवनबन्धोः ।
मण्डलम् उदितं वन्दे कुण्डलम् आखण्डलाशायाः ॥८॥
विद्यायाः । (सु।र। १४९, शा।प। ८६)
विश्वास-प्रस्तुतिः - ९
जीयाद् एकफलं नभस्तलतरोर् अभ्रंशि सिन्दूरिणी
मुद्रा कैरवकाननस्य तिमिरस्तेयाय सन्धिर् दिवः ।
मन्दारस्तवकोन्तरीक्षकवरीभारस्य गौरीपतेः
कम्पिल्लच्छदपाटलच्छवि कुलच्छत्रं रघूणां रविः ॥९॥
मूलम् - ९
जीयाद् एकफलं नभस्तलतरोर् अभ्रंशि सिन्दूरिणी
मुद्रा कैरवकाननस्य तिमिरस्तेयाय सन्धिर् दिवः ।
मन्दारस्तवकोन्तरीक्षकवरीभारस्य गौरीपतेः
कम्पिल्लच्छदपाटलच्छवि कुलच्छत्रं रघूणां रविः ॥९॥
हरेः ।
विश्वास-प्रस्तुतिः - १०
आद्यूनस् तमसां चकोररमणीरागाब्धिमन्थाचलो
जीवातुर् जलजस्य वासवदिशाशैलेन्द्रचूडामणिः ।
आदेष्टा श्रुतिकर्मणां कुमुदिनीशोकाग्निपूर्णाहुतिर्
देवः सोमरसायनं विजयते विश्वस्य बीजं रविः ॥१०॥
मूलम् - १०
आद्यूनस् तमसां चकोररमणीरागाब्धिमन्थाचलो
जीवातुर् जलजस्य वासवदिशाशैलेन्द्रचूडामणिः ।
आदेष्टा श्रुतिकर्मणां कुमुदिनीशोकाग्निपूर्णाहुतिर्
देवः सोमरसायनं विजयते विश्वस्य बीजं रविः ॥१०॥
विभाकरस्य ।